SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ शीले चम्पकमालाकथा सुलसाविहितं तथाऽपकारमतिदारुणम् । उपकारं परं मन्यमाना निन्ये दिनानियम् ॥६९३॥ सप्तभिः कुलकम् ॥ अपृच्छदन्यदा धर्मपरां देवीं महल्लिका । तादृक्प्रेमसुधासिन्धुर्नीरागस्त्वयि किं नृपः ? ॥६९४॥ देव्युवाचाऽखिलं कर्म, निमित्तं भुवनत्रये । शुभाशुभपरः कोऽत्र, हेतुस्तज्ज्ञैर्विचार्यते ॥६९५।। विदतां चाखिलान् भावान्, भुवने क्षणनाशिनः । इष्टाप्तिनाशयोः कीदृग, मुद्-विषादोदयः किल ॥६९६॥ विस्रसातः समीरौघोद्भूततूलचयोपमम् । जनन्याः ! प्रेम मे खेदो, न मनागपि वर्त्तते ॥६९७।। महल्लिकाऽप्यथो देवीमजल्पत् कल्पितस्मिता । 'कोऽप्यागच्छति विद्याभृत्, पुमांस्ते वासवेश्मनि' ॥६९८॥ देवी श्रुत्वेति श्रवसोस्त[प्त]त्रपुनिभं वचः । विधुराऽवददाः ! किं मे, समभूद्वचनीयता ॥६९९॥ वरं रागो वरं बन्धो, वरं रिपुपराभवः । कालधर्मो वरं नेदृग्, विगानं तु वरं भुवि ॥७००।। किमहं जन्म सम्प्राप्ता, तथा चेज्जीविता किमु । जीविता चेत्तदीदृक्षं, कौलीनं हा किमासदम् ॥७०१॥ प्रागपि प्रश्नतश्चैतज्ज्ञातं यद्धनलोभतः । सुलसा विद्ययोन्मत्ता, मां निर्दोषामदूषयत् ॥७०२॥ १. अन्तःपुररक्षिका । २. 'जननि ! आः' इति सन्धिविश्लेषः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy