________________
६८
श्रीअजितप्रभुचरितम् सर्गः-१ अध्यासीच्च ध्रुवं विद्याभृता केनचनाऽसकौ । रमते निर्भरं वाचि, मृषा दुष्टा च मानसे ॥६८२॥ हन्म्येनां किन्त्वियं शुद्धधर्मदाना[द्] गुरुर्मम । अतः परमियं पापा, स्प्रष्टव्या न ततो मया ॥६८३।। धर्मविज्ञाऽपि यदसावित्थं विषयलालसा । अकृत्येषु मतिं धत्ते, तदहो ! मोहजृम्भितम् ॥६८४॥ सञ्चिन्त्येत्यचलानाथस्तत्र पुंरूपमन्वहम् । ईक्षमाणो विलक्षोऽस्या, अङ्गसंस्पर्शमत्यजत् ॥६८५।। साऽपीङ्गितादिभिर्भूपं, भ्रश्यद्रागं विजानती । सुलसाचेष्टितं सर्वं, चूडामणिबलादवैत् ॥६८६।। विवाहात् प्राग् यदज्ञायि, कर्म भोगान्तरायिकम् । उपतस्थेऽधुनैतत्तद्वेद्यं केन निवार्यते ? ॥६८७|| सर्वोऽपि कर्मणां पूर्वकृतानां फलमश्नुते । निमित्तमात्रं जायेत, परस्तु सुख-दुःखयोः ॥६८८॥ इति ध्यानभरोदारविवेकविमलाशया । विषयान् विषसङ्काशान्, मन्वाना सत्तपःपरा ॥६८९।। सर्वज्ञवाग्सुधापूरशमिताऽसातपावका । विशेषात् पौषधं पर्वदिवसेषु वितन्वती ॥६९०॥ सामायिकव्रतं सारं, सततं बिभ्रती सती । त्रिकालं पूजयन्ती च, श्रीजिनेन्द्रपदाम्बुजे ॥६९१।। उपसर्गप्रसङ्गेऽपि, स्वर्गिरिस्थिरचित्तताम् । पुरातनमुमुक्षूणां, स्मृत्वा पुलकिता सखा(दा) ॥६९२।।