SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ शीले चम्पकमालाकथा तदाकर्ण्याऽवदद्देवी, 'विश्वं मुष्णासि दम्भतः । मयि तु ज्ञाततत्त्वायां, नावकाशोऽस्ति योगिनि ! ॥६७२ ॥ भवेद्यदि गतिः पुत्रैस्तद् ब्रूहि विदुषिब्रुवे ! | किमर्थं दुष्करं धर्मकर्म कुर्वन्ति कोविदाः ? ॥६७३॥ कुक्कुरी - सूकरी नागी- झषी - गोधादयोऽपि च । दुर्गतिं नैव यास्यन्ति कृताऽकृत्योच्चया अपि ॥६७४|| तनया भवितारश्चेत्तद्भवन्त्येव कर्मतः । अन्यथा न भवन्त्येव, विदस्तत्त्वमिदं विदुः ॥६७५॥ चेन्मूलिकादिभिः पुत्रा, भवन्तीति विनिर्णयः । वन्ध्याः काश्चन तत् क्वापि न भवेयुर्महीतले ||६७६ || निग्रहानुग्रहपरा, रागद्वेषविसंस्थुलाः । देवताश्चाभ्यर्चयितुं, मां वक्षि परमार्हतीम् ||६७७।। को मतङ्गजमारुह्य, खरमारोहति प्रधीः ? । आराध्य देवदेवं को. देवानिमान्निषेवते ? ' ॥६७८ ॥ , ६७ सुलसेति तदा देव्या, कृतप्रत्युत्तरा रयात् । उत्तस्थौ कोपकम्प्राङ्गी, दन्तदष्टरदच्छ्दा ॥६७९॥ अथ रात्रौ नृपे प्रेम्णा, सम्प्राप्ते वासवेश्मनि । विचक्रे विद्यया तत्र, पुंरूपं सुलसा स्फुटम् ॥६८०॥ तद्वीक्ष्य रोषतो यावत्, खड्गोद्धुरकरो नृपः । शय्योत्थायमधाविष्ट, तावन्नैक्षिष्ट तं नरम् ||६८१|| १. ‘पञ्चम्या त्वरायाम् ' [ सि. हे.श. ५।४।७७ ] इति सूत्रेणाऽयं प्रयोगः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy