________________
श्री अजितप्रभुचरितम् सर्ग: - १
६६
तदम्ब ! मत्कृते कञ्चिदुपायं तं कुरु द्रुतम् । कलङ्किनी यथाऽसौ स्याद्राजा च मयि रज्यते ' ॥ ६६१॥ सुलसा स्माह 'कर्मैत[द्], दुष्करं यदियं सदा । क्षुद्रैरधृष्यं निर्व्याजं, विधत्ते धर्ममार्हतम् ||६६२|| तथाऽपि वत्से ! त्वद्भक्तिप्राग्भारेण प्रमोदिता । यथा तथा यतिष्येऽहं तस्याः कालुष्यनिर्मितौ ॥६६३॥ इत्युक्त्वा सोत्थिता दध्यौ, कुतो नु व्यपदेशत: ? । तस्या गच्छामि सविधं, विवि[क्ते] छलवाञ्छया ||६६४|| हुं ! विद्यते सुतो नाऽस्यास्तदुपायोक्तिदम्भतः । गता लप्स्ये छलमथ, करिष्ये दुर्लभेप्सितम् ||६६५ ॥। विमृश्येति द्वितीयेऽह्नि प्राप्तां तां सद्म सादरम् । द्वास्थश्चम्पकमालाया, ज्ञापयामास सत्वरम् ॥६६६॥ दध्यौ देवी किमनया, कुलिङ्गिन्या यदीदृशाम् । सङ्गेनापि कलङ्क्येत, धर्मो नील्या: पटो यथा ॥६६७|| चित्तेऽनिष्टाऽप्यनिषिद्धा, साऽऽगत्याऽऽशीः पुरःसरम् । निषद्य गोष्ठीमारेभे, सदम्भेन हृदा मुदा ||६६८|| प्रस्तावे चैवमाचख्यौ, 'देवि ! नास्त्यङ्गजस्तव । तं विना खलु गार्हस्थ्यविधिर्वन्ध्योऽवकेशिवत् ॥६६९॥ किञ्चाऽनिरीक्षितसुतमुखानां गतिरप्यहो ! । निषिध्यते धर्मशास्त्रकोविदैर्विदुषीतरे ! ||६७० ॥
उपादत्स्व ततः पुत्रावाप्तये मूलिकामिमाम् । भक्तिनम्रा सृजाऽर्चां च, कालीदेव्याः सविस्तरम् ॥६७१॥