________________
शीले चम्पकमालाकथा अथाऽरिकेसरी भूपो, देव्या चम्पकमालया । रञ्जितोऽत्यर्थमपरा, देवीर्न समभावयत् ॥६५०॥ दूनाऽथ दुर्लभादेवी, मुख्यपत्नी महीपतेः । हृन्मग्नगाढशल्येव, विकल्पानित्यकल्पयत् ॥६५१॥ वरं दष्टाऽतिदुष्टेन, विषोदग्रेण भोगिना । सम्पन्ना भस्मसाज्ज्वालाकराले पावके वरम् ॥६५२॥ वरं च वार्डों पतिता, शल्यविद्धा वरं हृदि । सपत्न्या विलसन् भर्ता, न पुनर्वीक्षितो वरम् ॥६५३।। तासामेव जनुः श्लाघ्यं, शस्यं तासां च जीवितम् । यासां पतिः सदा वश्यो, भवेत् किङ्करवत् किल ॥६५४॥ तदुपायं कमप्येषा, रचयाम्यचिरादपि । यथा भर्ता विरज्याऽस्यां, स्यान्ममाऽश्रान्तमाश्रवः ॥६५५।। ध्यात्वेति सुलसां नाम, योगिनी पापयोगिनीम् । अनेकमन्त्रतन्त्रादिवेदिनीं सच्चकार सा ॥६५६॥ भोजनैर्वसनैर्गन्धैर्माल्यैः साऽपि स्म तुष्यति । दानात् परं न यद्विश्वे, वशीकरणमुत्तमम् ॥६५७|| ऊचे च सादरं 'वत्से !, वद किञ्चित् समीहितम् । यथा तद्दुष्करमपि, कृत्वा स्यामनृणा तव' ॥६५८॥ जगाद दुर्लभा 'मातरशरण्याऽस्मि साम्प्रतम् । तेन त्वां शरणं प्राप्ता, दुःखाब्धेरुद्धराऽऽशु माम् ॥६५९।। मायाविन्याऽनयाऽरञ्जि, राजा चम्पकमालया । कृतापराधामिव मां, वीक्षते न दृशाऽपि हि ॥६६०॥