________________
६४
श्रीअजितप्रभुचरितम् सर्गः-१ ततः परिषदं प्राप्तः, स्वप्नं भूपमजिज्ञपत् । भूपोऽवग् 'देव्यपृष्टाऽपि, स्वप्नार्थं खलु वक्ष्यति' ॥६३९॥ उभावपि ततो देव्याः, सविधं ययतुर्जवात् । स्वप्नं फलं च साऽज्ञासीत्, स्वयं चूडामणेर्बलात् ॥६४०॥ स्माह 'चाऽतः परं मासा, दश ते जीवितं ततः । यतस्व परलोकार्थं, धर्ममाराधयोत्तमम् ॥६४१॥ पुरोधाः प्रत्यभाषिष्ट, बहुमानान्वितं वचः । 'देवि ! त्वं धर्मदानेन, गुरुर्मम पुराऽप्यभूः ॥६४२।। इदानीमपि मे ब्रूहि, परलोकस्य साधनम् । परोपकारकरणे, न श्राम्यन्ति यदुत्तमाः' ॥६४३॥ ततश्चम्पकमालाऽपि, प्रोद्भवधर्मसौरभाम् । मोदितार्यजनालिं वाक्स्रजं समुदलासयत् ॥६४४।। 'इतः स्थानाद्योजनानां, शते सार्द्धऽस्ति ऋद्धिमत् । पुराणाख्यं पुरं नूलं, गीर्वाणनगरप्रभम् ॥६४५।। तत्र सिद्धान्तनामाऽस्ति, केवली भुवनार्चितः । तस्मादात्तव्रतः सिद्धिपदं कोविद ! लप्स्यसे' ॥६४६।। स निशम्येति शान्तात्मा, सम्मदोद्भासिमानसः । ज्यायांसं तनयं न्यास्थत्, स्वपदे भूपसम्मतः ॥६४७|| तां देवीं गुरुवन्नत्वा, सत्त्वानानन्द्य दानतः । पुराणपुरमाप्तश्च, गुरोस्तस्मादभूद् व्रती ॥६४८॥ देहेऽपि निर्ममः सारसंवेगाभोगभासुरः । तपसा सर्वकर्माणि, हत्वा चाप परं पदम् ॥६४९॥