SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ शीले चम्पकमालाकथा त्वमप्येवं द्विजन्मेन्द्र !, धर्मं दोषलवोज्झितम् । अस्वीकुर्वन्न सौख्यानि, लप्स्यसे कुशवित्तवत् ' ॥६२९॥ एवं प्रबोधितौ राजगुरुर्भूपोऽपि चैतया । [वि] शुद्धं प्रतिपेदाते, धर्मं सर्वज्ञदेशितम् ॥६३०|| इत्थं सततगोष्ठीभिर्मधुरे वत्सरे गते । पुण्याहे पृथिवीपालः, सोत्साहमुदुवाह ताम् ॥६३१॥ तया सह परं सौख्यं भुञ्जानो भूमिवासवः । क्षणकल्पान्यनल्पानि, हायनान्यनयन्त्रयी ॥६३२॥ दधती सुदती चैषा, शीलमान्तरभूषणम् । बाह्यभूषणसम्भारं वपुष्याचारतो दधौ ॥ ६३३ ॥ पुंरोहितोऽन्यदा प्रातः प्रायायां रजनौ स्वकम् । सैरिभारूढमाच्छा[दो]ज्झितं कृ[ष्ण] विलेपनम् ॥६३४॥ तरन्तं तटिनीतोये, हन्यमानं कशादिभिः । आकार्यमाणं कृष्णाङ्ग्या, स्वप्ने वीक्ष्य विबुद्धवान् ॥६३५॥ युग्मम् ॥ स्मृतपञ्चनमस्कारः, साध्वसोद्भूतवेपथुः । अचिन्तयच्च न स्वप्नममुं वेद्मि शुभायति [म् ] ॥६३६॥ देवीं चम्पकमालां तत् पृष्ट्वा तत्त्वार्थसाधनम् । सावधानमनाः कुर्वे, खर्वेतरसुखश्रिये ॥६३७|| इति सञ्चिन्त्य चित्तेन, तरसोत्थाय तल्पतः । शुचीभूय च तत्त्वज्ञः, स सर्वज्ञमपूपुजत् ॥६३८॥ " १. ' अन्येद्युरमरः स्वप्ने, आत्मानं विगताम्बरम् । लुलायपृष्ठमारूढं, प्रौढकृष्णविलेपनम् ' ॥ मुनि च ६ । १६८ ॥ ६३
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy