SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीअजितप्रभुचरितम् सर्गः-१ मूढा लोहाकरे लीना, मुधाऽऽयासं वितन्वते । श्रीनिमित्तं न गच्छन्ति, पुरःस्थं रजताकरम् ॥६१८।। तन्निशम्य त्रयस्तेषु, ग्रहमोक्षविशारदाः । व्यक्रीणत कुशानेको, न तु मूढः कदाग्रहात् ।।६१९।। गता रूप्याकरं रूप्यमगृह्णन्नथ तेऽग्रतः । श्रुत्वा स्वर्णाकरं त्यक्तरूप्याः प्रचलिताः पुरः ॥६२०।। प्राप्य स्वर्णाकरं स्वर्णं, स्वीचक्रुनिकटं पुनः । ज्ञात्वा रत्नाकरं त्यक्तस्वर्णास्तत्राऽगमन् द्रुतम् ॥६२१।। रत्नानि खनितुं चाथ, प्रारभन्ताऽलभन्त च । सपादलक्षमूल्यानि, प्रदीप्तान्यर्कबिम्बवत् ॥६२२॥ तेषां च खननावाप्तरत्नानां राजमानवाः । नवांशान् परिगृह्णन्ति, दशांशः खनकस्य तु ॥६२३।। स तु मूर्खः कुशैरेव, तुष्टो नाऽयतताऽधिकम् । सुहृद्भिः सारवस्तूपादानार्थं भणितोऽभ्यधात् ॥६२४।। 'भो ! नाऽहं चलचित्तोऽस्मि, युष्मद्वल्लोभबाधितः । नाऽऽयाससन्ततिं कुर्वे, कुशैरेवास्मि निर्वृतः' ॥६२५।। तेऽथ त्रयोऽपि सम्प्राप्य, प्रत्येकं रत्नपञ्चकम् । आययुः स्वीयनगरं, वस्त्वसारं विमुच्य तत् ॥६२६।। कुशवित्तोऽपि सम्प्राप, परं ते तु त्रयः सुखम् । रत्नद्रव्येण सम्प्रापुः, प्रीणिताऽर्थिजनव्रजाः ॥६२७।। स दुर्बुद्धिस्तु तां तेषां, प्राज्यामृद्धिं विलोकयन् । पश्चात्तापपरो जज्ञे, दुःखभाजनमन्वहम् ॥६२८॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy