________________
६१
कुशक्तिकथा एवमङ्गिवधो धर्मबुद्ध्याऽपि खलु निर्मितः । निबन्धनं दुर्गतेः स्यादिति चेतसि निश्चिनु ॥६०८।। सौवस्तिकस्ततः स्माह, त्वद्वचोभानुभानुभिः । अज्ञानतिमिरव्रातस्त्रस्तो मेऽद्य समन्ततः ॥६०९॥ प्रवरः सर्वधर्मेषु, मया धर्मः कृपात्मकः । बुबुधे सर्वमणिषु, चिन्तामणिरिवाऽद्भुतः ॥६१०।। कुलक्रमागतस्त्वेष, धर्मः सन्त्यज्यते कथम् ? । दुःशीलाऽपि निजा माता, त्यज्यते किं हि केनचित् ?' ॥६११॥ बालाऽप्यबालबुद्धिः सा, ततः प्रोवाच सस्मितम् । 'दारिद्र्य-मान्द्य-जाड्याद्याः, सेव्याः स्युः किं क्रमागताः ? ॥६१२॥ मम तातस्य कूपोऽयमिति कुग्रहतः किल । पिबत्यम्बु न हि क्षारं, कोऽपि तस्यैव शुद्धधीः ॥६१३।। दुःशीलाया जनन्याश्च, नार्च्यता तादृगीक्ष्यते । [भो भद्र !] भद्रबुद्धया स्वकुधर्मं मुञ्च मुञ्च तत् ॥६१४॥ एवं दत्तप्रबोधोऽपि, चेतिष्यसि न चेद् द्विज ! । कुशवित्त इवात्यन्तं, तत् पश्चात्तापमाप्स्यसि' ॥६१५।। तथाहि - 'चत्वारः सुहृदः केचित्, कोशलाया धनायया । चेलुर्देशान्तरं प्रापुः, क्रमाल्लोहाकरं च ते ॥६१६।। कुशांश्च जगृहुवर्षास्वमी लाभप्रदा इति । तदा च तत्र सम्प्राप्तवणिग्भ्य इति शुश्रुवुः ॥६१७॥ १. पुरोहितः । २. धनेच्छया ।