________________
६०
श्रीअजितप्रभुचरितम् सर्गः-१ जीवघातान्निजपितुश्छागतां तेऽपि साधुतः । श्रुत्वाऽभ्यधु'रभिज्ञानं, विना का प्रत्ययोऽत्र नः' ॥५९८॥ अभ्यधत्ताऽथ निर्ग्रन्थो, 'जनको वो विवेद यत् । तत् पृच्छत निधिस्थानं, छागं प्रत्ययहेतवे' ॥५९९॥ तैः पृष्टः सोऽथ तत्पादाग्राभ्यां पशुरदीदृशत् । प्रतीयुस्तेऽपि धर्मं च, पप्रच्छुः प्रणता मुनिम् ॥६००॥ आदिदेश मुनिर्भो भो मुग्धा ! भ्रान्ता मुधा चिरम् । धर्मस्य साधनं जीवत्राणमेव विबोधत ॥६०१॥ यथा चक्षुविना वक्त्रं, न भात्यम्बु विना सरः । गन्धं विनाऽथवा पुष्पं, तथा धर्मो दयां विना ॥६०२।। धर्मं प्राणभृतां घाताद्यो वैधेयो विधित्सति । स प्राणिणिषति प्राश्य, कालकूटं किलाऽन्धधीः ॥६०३॥ बाह्यं हिंसामयं यज्ञं, तत् परित्यज्य धीधनाः ! । भावयज्ञं प्रपद्यध्वं, दुष्कर्मध्वंसनेच्छया ॥६०४।। मनःकुण्डस्थध्यानाग्नौ, [प्र]दीप्ते साम्यवायुना । इन्द्रियाणि पशून् हत्वा, भावयज्ञो विधीयताम् ॥६०५।। उक्तं च - यूपं कृत्वा पशून् हत्वा, कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे, नरके केन गम्यते ?' ॥६०६।। एवं मुनिगिरा बुद्धास्ते श्राद्धत्वं प्रपेदिरे । छागोऽप्यनशनं सद्यः, प्रपद्याऽभूत् सुरोत्तमः ॥६०७॥