________________
त्रिविक्रमकथा
असारयाऽनया तस्मात्, सारं सुकृतसञ्चयम् । गृह्णामि दृषदा चिन्तारत्नवद् गुरुयत्नतः ॥५८९॥ ध्यात्वेति द्रव्यव्ययतः, स कासारमचीखनत् । तरूनश्वत्थमुख्यांश्च, तस्य पाल्यामरोपयत् ॥५९०॥ तत्र प्रारब्धयज्ञोऽसौ, प्रमोदात् प्रतिहायनम् । छागान्निहत्य न्यखनद्यज्ञस्तूपान् समुन्नतान् ॥५९१॥ कालक्रमेण तद्ध्यानलीनचेतास्त्रिविक्रमः । मृत्वा तत्रैव नगरे, छागत्वं समुपेयिवान् ॥५९२।। पितृक्रमममुञ्चन्तस्तनया अन्यदा मुदा । छागं तमेव यज्ञार्थमानिन्युनिजसद्मनि ॥५९३|| छागः प्राग्भवसम्बन्धि, तत् कुटुम्बं विलोकयन् । जातजातिस्मृतिः सर्वं, निजवृत्तमबुध्यत ॥५९४।। मखार्थं नीयमानोऽसावारटन् करुणं पथि । मासोपवासिना ज्ञाननिधिनाऽवाचि साधुना ॥५९५।। 'स्वयं स[रः] खानयित्वा, स्वयमारोप्य च दुमान् । स्वयं यज्ञान् विधायाऽपि, किमु बिब्बीति जल्पसि ?' ॥५९६।। छागे तच्छृतिमात्रेण, तूष्णींशीलेऽथ ते द्विजाः । सचित्रा जगदुः 'साधो !, बभणे किमिदं त्वया ?' ||५९७॥ १. तुला-सयमेव य रुक्ख रोविए, अप्पणियाए वितड्डि कारिया । उवाइयलद्धया य से, किं छगला ! 'बे बित्ति वाससे ? ॥
[वसुदेवहिण्डिग्रन्थे पे. ३०] सयमेव य लुक्ख लोविया, अप्पणिआ य वियड्डि खाणिया । ओवाइयलद्धओ य सि, किं छेला ! बेबेति वाससी ? ॥
[ उत्तराध्ययननियुक्ति २।१३८]