SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीअजितप्रभुचरितम् सर्ग:-१ पुरोधा अवदद् ‘धर्मे, का विधेया विचारणा । श्रुत्युक्तैः स हि यज्ञादिकर्मभिः साध्यते बुधैः' ॥५७९।। यदाहुः - "यज्ञार्थं पशवः सृष्टाः, स्वयमेव स्वयम्भुवा । यज्ञोऽस्य भूत्यै सर्वस्य, तस्माद्यज्ञे वधोऽवधः ॥५८०|| औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः, प्राप्नुवन्त्युच्छ्रिति पुनः" ॥५८१।। [योगशास्त्र २।३३-३४] अथो कुमार्यभाषिष्ट, ‘मा मा वादीरयुक्तिमत् । पशुहिंसात्मकैर्यज्ञैः, केवला दुर्गतिध्रुवम् ॥५८२।। जले चेत्तरति ग्रावा, वह्निश्चेच्छीततां भजेत् । प्रतीच्यां चेदुदेत्यर्कः, स्वर्गिरिश्चेत् प्रकम्पते ॥५८३॥ चन्द्रादङ्गारवृष्टिश्चेच्चेदभव्येऽपि धर्मधीः । तदप्यङ्गिवधान्नैव, जायते धर्मसम्भवः ॥५८४।। त्रिविक्रमः क्रतून् कुर्वन्, सम्यग्ज्ञानविवर्जितः । अवाप यत् फलं प्राज्ञ !, तदेकाग्रमनाः शृणु' ॥५८५।। क्षितिप्रतिष्ठितपुरे, जितशत्रु महीपतेः । आसीत् त्रिविक्रमो भट्टः, पुरोधा वेदपारगः ॥५८६।। दध्यौ चेतसि सोऽन्येद्युः, स्त्रीभावादिव धिग् रमा । चापलं नोज्झति प्राप्ते, प्रियेऽपि पुरुषोत्तमे ॥५८७|| न हि स्थिरा क्वचिल्लक्ष्मीः, स्यादुपायशतैरपि । तदुपाददते केचित्, फलमस्याः सचेतनाः ॥५८८।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy