SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ शीले चम्पकमालाकथा तज्जल्पतं बुधोत्तंसौ !, कस्य सा खलु युज्यते । इति चम्पकया पृष्टावूचाते राट-पुरोधसौ ॥५७०।। 'सरस्वतीव सत्प्रज्ञा, त्वमेवेदं सुदुर्गमम् । निर्णेतुमीशिषे नूनं,' ततः सोवाच वाग्मिनी ॥५७१॥ 'सर्वस्य गात्रस्य शिरः, प्रधानं यदुधा विदुः । तत् कबन्धशिरो यस्य, तस्य सेति विनिर्णयः' ॥५७२॥ प्रत्यहं वर्तमानासु, गोष्ठीष्वेवं सविस्मयः । नृपोऽन्यदाऽवदत् 'स्तुत्याः, कला एव शरीरिणाम्' ॥५७३॥ यदूचे - प्रायो न कस्यापि भवेत् समग्रः, कलाकलापो दशमं निधानम् । कलङ्कयुक्तोऽपि सुवृत्तशाली, क्षीणोऽपि पीनोऽजनि येन चन्द्रः ॥५७४॥ [उपजातिवृत्तम्] प्रोचे चम्पकमालाऽथ, 'श्लाघ्या धर्मकलैव हि । तां विना देहिनां ज्ञेया, विकलाः सकलाः कलाः ॥५७५।। उक्तं च - युध्यन्ते पक्षिपशवः, पठन्ति शुकशारिकाः । धर्मं शक्नोति यः कर्तुं, स शूरः स च पण्डितः ॥५७६॥ समाचरन्ति ये धर्म, सर्वथा सुपरीक्षितम् । ते नमस्याः सुरेन्द्राणामपि स्युः पुरुषोत्तमाः' ॥५७७|| ऊचे राजा ततः सत्यं, धर्मः श्रेयोनिबन्धनम् । न तु शुद्धतया शक्यो, निर्णेतुं मतभेदतः ॥५७८॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy