________________
५६
श्रीअजितप्रभुचरितम् सर्गः-१
हहाऽस्य किमिदं कर्म, घोरं लोकेऽधुना च मे । स्त्रीलुब्धोऽसौ जघानैनमिति भाव्ययशो महत् ॥५५९॥ म्रियेऽहमपि तच्चित्ते, चिन्तयित्वेति दीर्घधीः । स्वशिरस्तीक्ष्णया शस्त्र्याऽच्छिनत् सोऽतुच्छसाहसः ॥५६०|| तयोरथाऽनागमने, किमिति व्याकुला भृशम् । साऽपि तत्र द्रुतं प्राप्ता, तथावस्थौ ददर्श तौ ॥५६१॥ अध्यायच्च न चौरादिर्हन्ता कोऽप्यत्र दृश्यते । तच्छलितमिदं मन्ये, यक्षस्यैवाऽस्य किञ्चन ॥५६२॥ पुराऽपि खलु लोको मामाह भर्तृविरागिणीम् । भर्तृघ्नीमधुना वक्ता, तन्ममापि मृतिर्वरम् ॥५६३।। इत्यादाय च्छुरी यावच्छिन्तेऽसौ स्वशिरो रयात् । तावद्यक्षोऽवदद् ‘बाले !, मा कार्षीः साहसं महत् ॥५६४॥ मया लभ्यं हि पत्युस्ते, शीर्षमेतदगृह्यत । स्वदोषाशङ्कितश्चायं, वराकोऽसून् वृथा जहौ ॥५६५।। त्वं तु किं म्रियसे मुग्धे !, मुधे'त्युक्ताऽथ साऽवदत् । 'जनापवादभीताऽहमसून् धर्तुं न हि क्षमे' ॥५६६।। यक्षो विज्ञाय तां मृत्यावेकानां तुष्टमानसः । अजल्पदनयोः शीर्षे, न्यस्य स्वस्वकबन्धयोः ॥५६७।। तयाऽथ हर्षसञ्जातौत्सुक्यया शिरसी तयोः । न्यस्ते मिथोविपर्यासाज्जीवितौ तौ च सत्वरम् ॥५६८॥ ततस्तौ मम ममेति, प्रेयसीगोचरं भृशम् । विवादं विदधानौ द्राक्, स्वकीयं ग्राममापतुः' ॥५६९।।