SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पञ्च कुतूहलकारिण्यः कथाः अहो ! महत्ते सौभाग्यं यत् प्रियाऽपि न सम्मुखम् । पश्यतीति वयस्यैः स, हस्यमानो मुहुर्मुहुः ||५४८ ॥ मन्दाक्षभरनम्रास्यो, विलक्षः खेदभाग् भृशम् । वलित्वा स्वगृहं प्राप्तः, स्वजनैरप्यहस्य || ५४९|| युग्मम् ॥ पुनः कदाचिदानेतुमिमामुद्यमवानयम् । केनापि सुहृदाऽप्यूनपुण्यवन्नाऽन्वगम्यत ॥५५०णा एकाक्यपि ततश्चासौ, निर्ययावुद्वहंस्त्रपाम् । नाधुना तामनादाय, सद्माऽऽयामीति चिन्तयन् ॥५५१॥ मार्गे देवकुलं किञ्चित्, प्राप्य मध्यं प्रविश्य च । नत्वा महाप्रभावाढ्यं, यक्षं भक्त्येत्यभाषत ॥५५२ ॥ 'देव ! चेन्मम कान्ता सा, सानुरागा मया समम् । समेष्यति स्वमूर्ध्ना तद्, विधास्ये त्वत्पदार्चनम् ' ॥५५३॥ एवमुक्त्वा प्रयान् प्राप, श्वशुरौकः क्रमादसौ । साऽपि यक्षप्रभावेण, प्रियसङ्गोत्सुकाऽजनि ॥ ५५४॥ श्वश्वाऽथ सत्कृतो नानाशनाद्यैरयमादरात् । औत्सुक्यकलितां कान्तां गृहीत्वा वलितः प्रमुत् ॥५५५॥ तद्यक्षभवनं प्राप्तः, प्रोचे[ऽथ] प्रेयसीं यथा । 'तिष्ठेह यावद[म] रं, वन्दे महिममन्दिरम्' ॥५५६ ॥ इत्युक्त्वोत्तीर्य शकटाद्यक्षगेहं गतोऽसिना । छित्त्वाऽब्जवच्छिरः स्वीयं तत्पादाच चकार सः ॥ ५५७ ॥ तत्राऽनायाति तद्वीक्षाहेतोः शकटिकस्तया । प्रहितस्तं तथा वीक्ष्य, कम्प्राङ्गः पर्यचिन्तयत् ॥५५८॥ ५५
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy