________________
५४
श्रीअजितप्रभुचरितम् सर्ग:-१ कोऽसौ निवेद्यतां दक्षावित्युक्त्वा कन्यका स्थिता । ताभ्यां वेत्सि त्वमेवेति, प्रत्यूचे सा ततोऽवदत् ॥५३७|| "निमित्तज्ञोऽसौ यद्वेद, स सत्यज्ञानशेवधिः । विज्ञाया विद्यते नैव, साम्प्रतं मृतिरित्यदः' ॥५३८॥ भूयोऽपि श्रूयतां 'काचिनारी भूषणपेटिकाम् । आमुद्र्याऽमुञ्चदालोके, सपत्नीस्तैन्यभीतितः ॥५३९।। सखीगृहगतायां च, तस्यां दुष्टसपत्न्यपि ।। तामुद्घाट्य गृहीत्वा च, हारं पुनरमुद्रयत् ॥५४०॥ साऽप्यागता दृशा पेटां, दृष्ट्वा हारं च तं गतम् । ज्ञात्वा सपत्नी पप्रच्छ, न चाऽमनुत सा यदा ॥५४१॥ तदा सत्यसुरस्पर्शशपथार्थमनीयत । हारं ददौ च देवा हि, दुर्नयानां भयावहाः ॥५४२॥ कथं पेटामनुद्धाट्य, भूषणान्यनिभाल्य च । सा बुबोध गतं हारमिति ब्रूतं लसद्धियौ ! ॥५४३।। त्वां विनेदृक् क्व चातुर्यमिति ताभ्यां प्रजल्पिते । साऽभाषिष्ट 'स्वच्छकाचमयी पेटाऽत्र कारणम्' ॥५४४|| पुनः कथामजल्पत् सा, 'क्वापि ग्रामे महद्धिके । कुलपुत्रक एकोऽभूत्, सारवैदग्ध्यशेवधिः ॥५४५॥ परिणीतश्च सोऽन्यस्मिन्, ग्रामे वर्याकृति कनीम् । कथञ्चनाऽपि श्वशुरगृहं नाऽऽयाति सा पुनः ॥५४६।। गाढोत्कण्ठाचितस्वान्ते, तस्मिन् मित्रयुतेऽन्यदा । तामानेतुं द्रुतं प्राप्ते, साऽनेशत् क्वापि दूरतः ॥५४७।।