________________
पञ्च कुतूहलकारिण्यः कथाः
५३
कश्चिच्च तीरमासाद्य, तां पेटां लब्ध्वोदघाटयत् । तौ च पप्रच्छ कतिथो, दिवसो वामिहस्थयोः ? ॥५२७॥ तयोरेकस्तदा तूर्णं, तं तुर्यदिनमभ्यधात् । तदुच्यतां कथं तेन, ज्ञातमेतद्विशारदौ ! ? ॥५२८॥ ताभ्यां त्वमेव ब्रूहीति, गदिते कन्यकाऽगदत् । 'चतुर्थज्वरयोगेन, स हि विज्ञातवानदः' ॥५२९॥ पुनः साऽथ कथां स्माह, 'भूपस्यैकस्य कन्यकाम् । खेटः कश्चिदपाहार्षीत्ततो भूपोऽभ्यधादिदम् ॥५३०॥ 'यः कश्चित् पुरुषोत्तंसः, कन्यां प्रत्याहरेदिमाम् । तस्मै दास्य इती[दं] मे, ग्रावरेखोपमं वचः' ॥५३१॥ तस्य राज्ञश्च राज्येऽस्ति, नररत्नचतुष्टयम् । नैमित्तिको रथकारः, साहस्रश्च भिषक् तथा ॥५३२॥ नैमित्तिको दिशं जज्ञे, रथकृद्विदधे रथम् । तेनाऽभ्रगामिना गत्वा, साहस्रः खेटमक्षणीत् ॥५३३॥ क्षण्यमानेन तेनाऽथ, च्छिन्नं कन्याशिरो भिषक् । समधत्त ततो भूपश्चतुर्योऽपि ददाविमाम् ॥५३४॥ कुमारी साऽथ चतुरा, प्रोचे 'यः काष्ठभक्षणम् । विधास्यति मया साकं, मां स एव विवक्ष्यति' ॥५३५।। मन्त्रिनिर्मितप्रच्छन्नसुरुङ्गाद्वारि सज्जिताम् । चितां सह तया यश्च, विवेशैतां व्युवाह सः ॥५३६।। १. युवयोः । २. चतुर्थदिनम् । ३. विद्याधरः ।