________________
५२
श्रीअजितप्रभुचरितम् सर्गः-१ कुतूहलकरी काञ्चित्, कथां कथय कोविदे ! । ताभ्यां कदाचिदित्युक्ता, सा वक्तुमुपचक्रमे ॥५१६।। 'श्रूयतां कन्यका काचिदजानद्भिर्मिथो ददे । पृथक् पृथग् वरेभ्यो या, जनक भ्रातृभिः पुरा ॥५१७।। अथ त्रयोऽपि सोत्साहा, वरा युगपदाययुः । दैवाच्च दन्दशूकेन, दष्टाऽम्रियत कन्यका ॥५१८।। तेष्वभूद् भस्मसाच्चैकश्चितायाममुया सह । तस्याः सिषेवे भस्मापि, विहितानशनः परः ॥५१९।। तां जिजीवयिषुः पूजापूर्वं भक्त्युल्लसन्मनाः । तूर्णमाराधयामास, तृतीयो गोत्रदेवताम् ॥५२०॥ ततश्च प्राप्य पीयूषं, चितां सिक्त्वा च तद् द्वयम् । सोऽजीवयद्यतोऽचिन्त्यो, दैवतो महिमा महान् ॥५२१।। अहम्पूर्विकयाऽथैषु, तां काङ्क्षत्सु कुमारिकाम् । स्याद्वरः कतमो योग्य ?, इत्यालोच्य निवेद्यताम्' ॥५२२।। विमृशन्तावथाऽनुद्यन्मनोभूप-पुरोधसौ । आहतुस्त्वां विनाऽलं को, निर्णेतुमिदमुत्तरम्' ॥५२३॥ ततः सा न्यगदत् 'तस्या, जीवदाता पिता ध्रुवम् । सहोत्थः सोदरस्त्यक्ताशनो ज्ञेयस्तु वल्लभः' ॥५२४॥ सैवं विस्माप्य तौ बाढं, कथां भूयोऽप्यभाषत । 'प्रापाते न्यायनिष्ठेन, राज्ञा केनापि तस्करौ ॥५२५॥ वधार्हागस्कृतौ तौ चाऽवध्याविति महीभुजा । नीरन्ध्रीकृत्य पेटायां, न्यस्याऽम्भोधौ प्रवाहितौ ॥५२६।।