SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ शीले चम्पकमालाकथा विशालेशोऽवदत् 'पूर्वमेवेयं ते ददे सुता । किन्त्वेषा वक्ति वर्षान्ते, प्रश्नाभ्यूहात् करग्रहम्' ॥५०५॥ अथाऽब्रूताऽमरो 'देव !, लग्नं शुध्यति नैषमः । भानुक्षेत्रे सुराचार्यो, यदारोहति सम्प्रति' ॥५०६।। पत्री कन्या लिखित्वाथ, तातहस्ते समार्पयत् । गृहीत्वा तां पुरोधाश्च, स्पष्टमेवमवाचयत् ॥५०७॥ फाल्गुनश्वेतैकादश्यां, सर्वदूषणवर्जितम् । सर्वग्रहबलोपेतं, सल्लग्नमिति निर्णयः ॥५०८॥ अथोत्थाय विशालेशः, स्वप्रभुं तं सगौरवम् । निनाय विनयी सौधे, वरिवस्याविशारदः ॥५०९।। स्नपयित्वा भोजयित्वा, प्राभृतैरथ चारुभिः । विशालेशेन सन्मान्यमानोऽब्रूताऽरिकेसरी ॥५१०॥ 'धत्ते यदि परां भक्तिं, भवान् मयि महाशय ! । तत्तूर्णं प्रहिणोत्वेतां, मया सह निजात्मजाम्' ॥५११॥ ललिताङ्गस्तथेत्युक्त्वा, तनयाममुना सह । प्रजिघाय हितोदारपरिवारां शुभेऽहनि ॥५१२॥ ततः क्रमेण सम्प्राप्तः, स्वपुरीमरिकेसरी । तस्यै ददौ महासौधं, धन्यम्मन्यः प्रमोदभृत् ॥५१३॥ भूपतिर्भोजनस्यान्ते, सगुरुः प्रतिवासरम् । तत्राऽऽगत्य तया गोष्ठी, चक्रे शक्रसमः श्रिया ॥५१४॥ अप्रीणयच्च सा शश्वच्छर्करारससोदरैः । प्रश्नोत्तरकथाकाव्यादिभिर्भूप-पुरोधसौ ॥५१५।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy