________________
५०
श्रीअजितप्रभुचरितम् सर्गः-१ सदः प्राप्तो नरेशेन, पृष्टो हेतुं द्रुतागतेः । स किञ्चिद् भाषते यावद्भूपजा तावदाययौ ॥४९४।। गुरोटुंतागतेर्हेतुं, पृष्टा प्रश्न विचार्य सा । अतनोत् सत्यकुमुदकौमुदीसुन्दरां गिरम् ॥४९५।। 'नाऽनंसीत् तात ! ते पादौ, पुरो योऽयं स्थगीधरः । तस्य कार्ये समायासीदाशु राजगुरुः कृती' ॥४९६।। भूपोऽप्यथ कुणालेशं, तं विज्ञायोपगृह्य च । आसयित्वाऽऽसने भक्त्या, बद्धाञ्जलिरदोऽवदत् ॥४९७।। 'प्रभो ! मम सुता धन्या, यस्या विज्ञानसंश्रुतेः । अलञ्चक्रे सभामेतां, भवानपि कुतूहली ॥४९८॥ अद्याऽस्माकं महान् पुण्यपरिपाकः स्फुटोऽभवत् । स्वामी रूपपरावर्तेनापि यद् गेहमीयिवान् ॥४९९।। कल्पद्रुमोऽद्य फलितो, जज्ञे मे मन्दिराजिरे । कामकुम्भोऽद्य वा लब्धो, भाग्योदयवशान्मया ॥५००॥ अद्याऽहं स्फुरदानन्दः, प्रलीननिखिलव्यथः । वसुधाधिप ! जातोऽस्मि, प्राप्य त्वदर्शनामृतम् ॥५०१॥ प्रभो ! राज्यमिदं माद्यद्गजाश्वरथपत्तिकम् । सराष्ट्रमृद्धिमत् कोशं, सम्पूर्णमुररीकुरु ॥५०२॥ स्वभुजिष्यमिमं भक्तं, निदेशकरणोद्यतम् । प्रसद्याऽनुगृहाणेश !, सद्यः कृत्यं निवेद्यताम्' ॥५०३।। इत्युक्तिभाजं तमथ, स्मयमानोऽरिकेसरी । जगाद ‘कन्यकादानं, युक्तमभ्यागतस्य मे' ||५०४॥