________________
शीले चम्पकमालाकथा
४९
यस्याश्चूडामणिज्ञानं, निरौपम्यं विशेषतः । किं बहूक्त्या गुणास्तस्या, नो वाच्या जिह्वयैकया ॥४८४॥ एवं स्तुवन् राजगुरुः, सर्वमाविश्चकार तत् । यत्तस्यां सदसि ज्ञानं, चमत्कारि तया जगे ॥४८५॥ तत्तया भवतो वेधा, विदध्याद् घटनां यदि । गौरी हरेण घटयंस्तदा न झूणभाग् भवेत्' ॥४८६॥ गुरोगिरमिति श्रुत्वा, भृशमुत्कलिकाकुलः । अवदन्नृपतिस्तीव्र, शल्यितः स्मरसायकैः ॥४८७॥ 'मदर्थे सा कुमारी किं, नार्थिता भवता कृतिन् ! । कन्यार्थनान्न लघुता, महतामपि जातुचित्' ॥४८८॥ गुरु[रू]चे 'मोत्सुको भूर्यत् सत्यज्ञानयाऽनया । हायनान्ते भवानेव, भावी भर्ताऽभ्यधीयत' ॥४८९॥ भूमिभर्ता बभाषेऽथ, 'कल्पकालोपमो मम । हायनो हा कथं यास्यत्येष तदर्शनं विना ॥४९०॥ ततः स्थगीधरीभूय, तत्र गत्वा त्वया समम् । द्रक्ष्यामि तां वरारोहामन्यथा जीवितं न मे' ॥४९१॥ न हियं न भियं नैवाऽवर्णवादं न चौचितीम् । गणयन्ति विशिष्टेष्टजनचोरितचेतसः ॥४९२॥ ततः स्थगीधरीभूतभूमीश्व[र]युतो गुरुः । व्यावृत्य सबलस्तूर्णं, तां विशालां पुरीं ययौ ॥४९३॥ १. 'क्षतिभाग्' इत्यर्थः । अत्र 'खूण' शब्दो देश्यः ॥ २. वर्षान्ते ।