________________
श्रीअजितप्रभुचरितम् सर्ग:-१ लोकैरप्येष वस्त्राद्यैरचितोऽथ महीभुजा । विसृष्टोऽध्ययनागारमासदत् कन्यया समम् ॥४७४।। भूपोऽप्राक्षीत्ततो राजगुरुं ‘कारणतः कुतः । प्रभुणा प्रहितोऽसीति, जल्पाऽनल्पगुणाकर !' ॥४७५।। अथैषोऽवदद'ग्राहि, गिरिः कालिञ्जराभिधः । मदोन्मत्तेन पल्लीशेन, दम्भिसज्ञेन दम्भिना ॥४७६।। तत्तं स्वीकृत्य स्वं सैन्यं, मुञ्च मुञ्चेति सन्मते ! । त्वां कुणालापुरी भर्ता, समादिशति सादरम्' ॥४७७।। ललिताङ्गः समाचख्यौ, 'दुर्गः स्वीकृत एव सः । पल्लीशो मे पुरः कोऽयं, पञ्चास्यस्य कुरङ्गवत्' ॥४७८।। तेनेत्युक्त्वा विसृष्टोऽथाऽमरः प्राप्तो निजां पुरीम् । भूपमाशीभिरानन्द्याऽऽसाम्बभूवोचितासने ॥४७९॥ ऊचे च 'भवदादेशाद्विशालां गतवानहम् । सत्कृतो ललिताङ्गेन, लब्धवांश्च दृशोः फलम्' ॥४८०|| किं तद्वृक्फलमित्युक्तः, स भूयोऽवक् प्रमोदतः । 'देव ! तस्य तनूजाऽस्ति, सुकृतप्राप्यदर्शना ॥४८१॥ रूपेण स्वर्गवामाक्षीः, क्षीणगर्वाः करोति या । वाङ्माधुर्येण वसुधां, मुधा माधुर्यडम्बराम् ॥४८२॥ गुणैरनन्यसामान्यैर्विस्माययति या बुधान् । तिरस्करोत्यङ्गिरसमपि बुद्ध्या प्रकृष्टया ॥४८३॥
१. 'जगृहे दम्भसज्ञेन' इति विनयचन्द्रसूरिरचिते श्रीमुनिसुव्रतस्वामिचरित्रे ।६।११५॥ २. सिंहस्य ।