________________
४७
शीले चम्पकमालाकथा श्रुत्वेति युगपच्छोक हर्षों राजगुरुर्दधत् । पुनः पप्रच्छ ‘पञ्चत्वं, प्राप सूनुरसौ कथम् ?' ॥४६३।। साऽथो विचार्य विदुषी, वदति स्म 'यदा भवान् । पुरात् प्रास्थित भूपालनिदेशाद्दक्षशेखरः ॥४६४।। तदाऽनुयानसौ सूनुनिर्भर्त्य स्थापितस्त्वया । कतिचिदिवसान्मातुः, पार्श्वेऽस्थात् क्रीडया सुखम् ॥४६५।। तरवारिं तवाऽन्येद्युह्णन् मात्रा निवारितः । रोषणो गणयामासाऽपमानं मानसे बहु ॥४६६॥ ततः पुर्या बहिर्गत्वा, वाप्यां झम्पामदादसौ । असूंस्तृणाय मन्यन्ते, मानिनो ह्यवमानिताः ॥४६७।। तत्राऽसौ बहुले पङ्के, निममज्ज तथा यथा । स्वजनैर्वीक्ष्यमाणोऽपि, वीक्षामासे न हि क्वचित् ॥४६८॥ तत्ते ज्ञापयितुं वृत्तं, प्रहितोऽस्ति कुरङ्गकः । स्थितो राजसभाद्वारे, जवादाहूय पृच्छ्यताम्' ॥४६९॥ राज्ञाऽऽह्वाय्याऽथ पृष्टोऽसौ, तत्तथैव न्यवेदयत् । चमच्चकार तज्ज्ञानसंवादा[द]खिला सभा ॥४७०।। प्रोचे राजगुरु' भूप !, साक्षाद् गीस्तव पुत्रिका । अस्यास्त्रिकालविषयं, तथ्यं ज्ञानं स्फुरत्यलम्' ॥४७१।। अथ क्ष्मापेन प्रीतेन, स्वर्ण-क्षौमादिवृष्टिभिः । निर्वापितः श्रमार्चिष्मानुपाध्यायस्य सत्वरम् ॥४७२॥ अलब्ध च धराधीशादुपाध्यायधुरन्धरः । सुवर्णलक्षप्रमितं, शासनं बहुमानतः ॥४७३॥