SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ४६ श्रीअजितप्रभुचरितम् सर्गः-१ नाम्नाऽमरगुरुस्तेन, स्वगुरुः कार्ययोगतः । प्रहितस्तत्र च तदा, प्राप्तोऽविशददः सदः ॥४५२॥ राज्ञा चासनदानादिसत्कारपरितोषिते । तत्रासीनेऽथ सञ्जज्ञे, क्षेमप्रश्नादिकं मिथः ॥४५३।। सोऽपि रूपवतीमेनां, कन्यां दृग्भ्यां निशामयन् । दध्यावियं ममेशस्य, [योग्याऽस्ति] प्रेयसी ननु ॥४५४|| नरेशस्तामथाऽप्राक्षी[द्], [व]त्से ! मम निवेदय । त्वं जज्ञाथ कलाः काः काः, स्वीयप्रज्ञाप्रकर्षतः' ॥४५५॥ यावत् किञ्चन नोवाच, [सा] तावत् कुमुदोऽवदत् । 'वेत्ति सर्वाः प्रकर्षं तु, प्राप्ता चूडामणावियम्' ॥४५६।। अमरः सस्मितं स्माह, 'विज्ञे ! चेद्वेत्सि तद्वद । कः कीदृक्षः कदा भावी, कान्तस्ते ? कति चाऽऽत्मजाः ?' ॥४५७।। हिया नतमुखाब्जेयं, न ददौ किञ्चिदुत्तरम् । ततोऽवक् कुमुदो 'वत्से !, का हीस्ते प्रश्नितोत्तरे' ॥४५८॥ साऽथो जजल्प ‘भावी मे, वरः क्षमापोऽरिकेसरी । इतश्चाऽह्नो वत्सरान्ते, स मे पाणिं ग्रहीष्यति ॥४५९॥ अन्यच्च द्वादशाब्दानि, सार्द्धानि विरहो मम । भावी तेन समं सोऽथ, स्वयमेव च रक्ष्यते ॥४६०॥ ततो भावि सुतद्वन्द्वमिति पृष्टं न्यवेदयम् । अपृष्टमपि किञ्चित्ते, ब्रुवे राजगुरो ! शृणु ॥४६१।। ज्येष्ठोऽम्रियत ते सूनुरितोऽह्नो दशमेऽहनि । तत्रैव निशि ते कान्ता, सुतं च सुषुवेऽद्भुतम्' ॥४६२।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy