________________
शीले चम्पकमालाकथा
७१
अथ निर्मितनिःशेषप्रातःकृत्यो विशां विभुः । प्राप्तो धर्माधिकरणमेवं वाचमुपाददे ॥७१४।। भो ! भो ! जनप्रवादेन, या दुःशीलेति पप्रथे । तस्याश्चम्पकमालाया, दिव्यमद्य प्रदीयताम् ।।७१५।। शुद्धायामेव तस्यां मे, भोक्तव्यमिति भूधनः । जल्पन् पौरैः 'प्रभो ! मा मा, वादीर्दुष्करमेतकत्' ॥७१६।। इत्युक्तः सत्यसन्धोऽहमित्युत्तरपरो रयात् । देवीमाह्वातुं शुद्धान्ते, प्रजिघाय महल्लिकाम् ॥७१७|| युग्मम् ॥ देव्यपि प्रश्नविज्ञाताकूता पारितपौषधा । स्नाता परिहितोद्दामोद्गमनीयाऽऽर्चयज्जिनम् ॥७१८।। कायोत्सर्गविधानाच्चाऽऽराध्य शासनदेवताम् । अवददेवि ! विघ्नौघं, हंसि त्वं विमलात्मनाम् ॥७१९॥ शुद्धाया हद्वचःकायैर्ममाऽसदोषमेतकम् । हत्वा प्रवचने कुर्या, वाँ क्षिप्रं प्रभावनाम्' ॥७२०।। ततस्तस्यां नृपसदः, प्राप्तायां दुर्लभादिकाः । तस्थुः सपत्न्यो नेपथ्यान्तरिता व्याकुला हृदि ॥७२१॥ अथ तैलं कटाहान्तर्गतं तापितमग्निना । छणत्कारैर्विपक्षाणां, हृदि दाहमजीजनत् ॥७२२॥ धर्माध्यक्षैस्ततस्तत्र, प्रक्षिप्ते तप्तमाषके । प्रफुल्लास्याऽवदद्देवी, प्राञ्जला योजिताञ्जलिः ॥७२३॥ 'मनो-वचन-कायैश्चेत्, स्वप्नेऽपि पुरुषः परः । चिन्तितो भाषितः स्पृष्टस्तदग्ने ! मत्करं दहेः ॥७२४॥