________________
७२
श्रीअजितप्रभुचरितम् सर्गः - १
पुष्पदन्तौ लोकपालावीक्षध्वं मनसाऽपि चेत् । ममाऽस्ति शीलमालिन्यमग्निर्दहतु तत्करम् ' ॥७२५॥ यावच्चम्पकमालैवं, बभाषे प्रस्फुटाक्षरम् । ताव [द]ग्निः समुत्तस्थौ, नगरे प्रलयाग्निवत् ॥७२६ ॥ स्फुटद्वंशत्रटत्कारैः, पतत्सौधध्रसत्कृतैः । नष्टप्राणा इव जना, बभूवुर्गतचेतनाः ॥७२७||
प्राज्यैर्मनोरथैः साकं, जनानां भाग्यभङ्गतः । धगद्धगिति सद्योऽपि, स्नेहकुम्भाः प्रजज्वलुः ॥७२८ ॥ तारस्वरेण चक्रन्दुर्भीष्मे तत्र क्षणे जनाः । निर्दग्धद्रविणागारमानुषाः प्रस्फुरच्छुचः ॥ ७२९ ॥ गवां वियुक्तवत्सानां, हम्भारावैः सुदुःश्रवैः । हृदयानि दयालूनां, दलयामासिरे रयात् ॥७३०॥
मातरोऽपि निजप्राणत्राणार्थं स्वशिशूनपि । दुःखेन स्वोदरे व्यूढान्, ज्वलितेऽग्नौ हहाऽत्यजन् ॥७३१॥ प्रोन्मुक्तजीवितव्याशा, धार्मिकाः सुगतीप्सवः । शिश्रियुः शरणं स्वेष्टदेवतां दुरितापहाम् ॥७३२॥ दुर्निवारे काम इव, प्रकामं तापदायिनि । ज्वलत्यग्नौ जहुः के के, धीरा अपि न धीरताम् ? ॥७३३|| असाध्योऽयमुपायानां विविधानां महाऽऽमवत् । सप्तार्चिः सर्वजन्तूनां, धिक् प्राणानन्तयिष्यति ॥ ७३४।। हाकिमेतदकाण्डेऽपि, समभूदिति भूधवः । जनाश्च यावद् ध्यायन्ति, तावद्वाणी दिवीत्यभूत् ॥७३५॥