________________
शीले चम्पकमालाकथा
७३
'सुरापगापयःपूतशीललीलावतीममूम् । देवीं कलङ्कयतां वः, स्तोकमेवैतदप्यहो' ॥७३६।। श्रुत्वेति निखिलाः पौरा, दैन्यविस्मयशालिनः । रक्ष रक्षेति जल्पन्तः, पेतुर्देव्याः पदाब्जयोः ॥७३७|| भूपालोऽप्यूचिवान् ‘देवि !, प्राप्तमेतैर्दुराशयैः । त्वय्यसद्दोषदानद्रोः, फलमुग्रं पचेलिमम् ॥७३८।। त्वं तु सत्त्ववती सर्वसत्त्वेषु हितकारिणी । महाशया क्षमस्वाऽऽगः, पाहि पाहि रयात् पुरम्' ॥७३९।। देवी ततोऽभ्यधादर्हन्, देवः सङ्गोज्झितो गुरुः । अर्हत्प्रणीतो धर्मश्चैकाग्रं यद्येषु मे मनः ॥७४०॥ चित्तेऽधारि च चेत् कान्तोऽरिकेसर्येव नाऽपरः । तद्वह्निः शाम्यतु नवं, हाद्यं चास्तु सत्वरम्' ॥७४१॥ तद्वचःसमकालं च, जैनामर्या तथाकृते । जितामरपुरीदर्पा, ननर्तेव ध्वजैः पुरी ॥७४२॥ कौतुकेन तथा भक्त्या, प्राप्तैर्कोम्नि स्थितैः सुरैः । प्रहतस्याऽऽनशे ध्वानो, दिशो मङ्गलदुन्दुभेः ॥७४३॥ 'चिरं जय चिरं नन्द, प्रसरच्छीलसौरभे !' । इति वाचा समं तस्यां, पुष्पाणि ववृषुः सुराः ॥७४४।। इति दृष्टाऽद्भुता[द्] भीता, सुलसा सहसा ततः । नत्वा महासतीमेतामेवं दीनं वचोऽवदत् ॥७४५।। 'देवि ! देवास्त्वदीयेन, वृत्तेनैते वशीकृताः । सेवाहेवाकितां भेजुरङ्किताः किङ्करा इव ।।७४६।।