________________
७४
श्रीअजितप्रभुचरितम् सर्गः-१ विद्याबलान्मयाऽदर्शि, भूपालाय परः पुमान् । धिग् धिग् द्रविणलोभेनाऽऽविर्भूतां मम दुर्मतिम् ॥७४७।। तत् प्रसीद प्राणभिक्षां, देहि मे नतवत्सले ! । जिनधर्मप्रदानेनाऽनुगृहाण च मामलम् ॥७४८॥ धर्मपोतं त्वदादिष्टं, विना क्वोन्मज्जनं मम ? । महापातकभारेण, मज्जन्त्या भववारिधौ' ॥७४९॥ सुलसामिति जल्पन्ती, स्माह देवी ‘त्वया न मे । कृतं किञ्चन किन्त्वेष, विपाकः पूर्वकर्मणाम् ॥७५०॥ धन्याऽसि त्वमसि प्राज्ञेऽधुनाऽप्यूरीकरोषि यत् । श्रीसर्वज्ञमतं पपे, कालकूटोच्चयामृतम्' ॥७५१॥ देव्या इदं मृदुवचः, शुश्रुवांसस्तदा जनाः । तस्या विज्ञाततत्त्वत्वं, प्रशशंसुर्मुहुर्मुहुः ॥७५२॥ भूपं कोपकडाराक्षं, सुलसाघातनोद्यतम् । देवी चम्पकमालैव, न्यषेधत् करुणाहृत् ॥७५३॥ देव्यथो दुर्लभाऽप्येवमध्यासीज्ज्ञानशून्यया । धिग्मयाऽस्यां महासत्यां, मत्सरोऽकारि दारुणः ॥७५४।। मत्कृतं साम्प्रतं चेदं, सर्वमाविरभूत् क्षणात् ।। कियच्चिरं भवेच्छन्नमेनः खलु विनिर्मितम् ॥७५५।। भविष्याम्यधुनाऽमुष्याः, शापेनाऽह्नाय भस्मसात् । अचिन्त्यो हि सुसाध्वीनां, महिमा भुवनोत्तरः ॥५६॥ तदमूमे[व] विनयात्तोषयिष्यामि सत्वरम् । भूमौ स्खलितपादो हि, भूमिमेवावलम्बते ॥७५७॥