________________
शीले चम्पकमालाकथा
७५
ध्यात्वेति दुर्लभा नत्वा, पादौ देवीं व्यजिज्ञपत् । 'क्व ते कलङ्कोऽकारीद(मा)मभ्यर्थ्य सुलसां मया ॥७५८॥ ममाऽभयकरं पृष्ठे, करं देहि महासति ! । सागस्यपि कृपासाहृदया हि महाशयाः' ॥७५९।। यदुक्तम् - अपकारिण्यपि प्रायः, स्वच्छाः स्युरुपकारिणः । मारके[भ्यो]ऽपि कल्याणं, रसराजः प्रयच्छति ॥७६०।। एवं दीनगिरे तस्यै, कारुण्यकरिविन्ध्यभूः । प्रददावभयं देवी, पृष्ठन्यस्तकराम्बुजा ॥७६१।। राजाऽप्याख्यत् 'त्वयि कथं, देवि ! लक्ष्म लसेत् किल । क्षारत्वं किमु कुत्रापि, पीयूषेऽपि परिस्फुरेत् ? ॥७६२।। किन्तु तुच्छाशयाऽनया, कृतं किञ्चन वैकृतम् । अवलोक्याऽविमृश्यैव, कुविकल्पमकल्पयम् ॥७६३॥ विवाहात् प्रागपि प्रश्नाद्विरहं च त्वमभ्यधाः । क्षमस्व तद्यन्मयका, वृथैवाऽस्यवहेलिता' ॥७६४॥ पौरेरथ प्रतिपदं, सप्रमोदं नतस्तुता । मङ्गलैविविधैर्देवी, प्रापदन्तःपुरान्तरम् ॥७६५॥ वाचामविषयं प्रेम, बिभ्रता भूभुजा समम् । बुभुजे च चिरं भोगान्, प्रयता धर्मकर्मणि ॥७६६।। प्रतिग्रामं प्रतिपुरं, जिनसद्मान्यचीकरत् । पात्रेषु च ददौ दानमन्वहं सा महासती ॥७६७।। १. 'सौम्या' इति अभि.चिन्ता. ।१०५०। श्लोकस्य वृत्तौ । २. स्वर्णम् । ३. पारदः ।