________________
श्रीअजितप्रभुचरितम् सर्गः-१
ततोऽस्या भुवनानन्द-करिसिंहाभिधौ सुतौ ।। बभूवतुर्विक्रमिणौ, सुता च जयसुन्दरी ॥७६८॥ प्रेमाब्धिमग्नमन्येधुविषयैकरतं नृपम् । वैराग्यविमुखं देवी, बोधयामास तद्यथा ॥७६९।। 'आपाते मधुराः स्वामिन् !, परिणामेऽतिदारुणाः । विषयाः प्रविहातुं ते, युज्यन्ते भवहेतवः ॥७७०॥ किञ्चाऽत्र नश्वरे विश्वे, भावाः [शुभाऽ]शुभा अपि । यान्तोऽशुभत्वमीक्ष्यन्ते, तदास्था तेषु कीदृशी ॥७७१॥ तथाहि - य एव स्वीयसौन्दर्यसन्तर्जितपुरूरवाः । स एवोदग्ररुग्ग्रस्तः, कुत्स्यः स्याज्जगतोऽपि हि ॥७७२।। य एव प्रसृतिप्रायप्रसरल्लोचनद्वयः । स एव कालयोगेन, जात्यन्ध इव जायते ॥७७३।। य एव वावदूकाग्यो, वाचस्पतिनिभप्रभः । कालात् स एव मूकत्वं, भजते भग्नगीर्बलः ॥७७४॥ किं बहूक्तेन ? सर्वाङ्गसुन्दरोऽप्यसुमान् भवे । पङ्गुकुण्यादितां कालात्, कलयेत् पातकोदये ॥७७५।। यैव रम्भायते तारतारुण्या किल कामिनी । भयङ्करा पिशाचीव, सैव स्यात् प्राप्तवार्द्धका ॥७७६।। अन्यच्च - १. तव । २. रम्भा इवाचरति ।