________________
शीले चम्पकमालाकथा
७७
मल-मूत्रा-ऽस्थि-मांसा-ऽसृग-मज्ज-श्लेष्मादिपूरिते । धिग्धर्ममवजानन्ति, रक्ता योषिद्वपुष्यपि ॥७७७॥ बाढं रम्यतरस्याऽपि, नारीदेहस्य चेद् भवेत् । व्यत्यासोऽन्तर्बहिस्तत् स्युर्दुराश्च द्विकादयः ॥७७८।। जनो यथा मृगाक्षीषु, दृढभावेन रज्यते । तथा श्रीजैनधर्मे चेन्न दूरे तत् परं पदम्' ॥७७९॥ देव्यैवं बोधितो धात्रीधवो भवविरागवान् । न्यास्थज्ज्येष्ठे सुते राज्यं, संयमश्रीजिघृक्षया ॥७८०॥ सदेवीकस्ततो दीक्षां, गृहीत्वा गुरुतः कृती । देवभूयमुपेयाय, क्रमात् शिवमवाप्स्यति ॥७८१।। एवं चम्पकमालायाः, श्रुत्वोदाहरणं जनाः ! । शीलं बिभृत निःशेषमहिमाप्तिनिबन्धनम् ॥७८२।। दिव्यौदारिकभेदभृन्निगदितं, यन्मैथुनं हृद्वचः
कायैस्तन्न करोति कारयति नो, नैवानुजानाति च । इत्यष्टादशभेदमिन्दुविमलं, यो ब्रह्म धत्ते दृढं, सोत्कण्ठं स सुखश्रिया परमया, धीमान् समाश्लिष्यते ॥७८३।।
___ [शार्दूलविक्रीडितवृत्तम्] __ -- शीले चम्पकमालाकथा । ग्रं. ३५६, अ. ४० .हेतुर्महिम्नां सर्वेषां, शुद्धं शीलं भवत्यहो ! । तपोऽपीदृक्षमन्यच्च, हन्ति कर्म निकाचितम् ॥७८४॥ देवेन्द्रो देववृन्दैर्यद्, विनतो विनयाञ्चितैः । महद्धिको भुनक्ति स्वः, प्रसूनं तत्तपस्तरोः ॥७८५॥