SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ७८ फलं तु निर्वृतेः पदं, क्षये निखिलकर्मणाम् । नीरन्ध्रानन्तविज्ञानदृष्टिवीर्यसुखात्मकम् ॥७८६॥ मूढाः काङ्क्षन्ति सौख्यानि, न तु तन्वन्ति सत्तपः । नेति चेतन्ति कार्यस्योद्भवो हेतुमृते कुतः ? ॥७८७।। तप्यमानास्तपस्तीव्रं देहिनो निर्मलाशयाः । " - श्री अजितप्रभुचरितम् सर्ग: - १ शक्राणामपि सेव्याः स्युर्मानवानां किमुच्यते ? ||७८८|| प्रत्यूहव्यूहमत्युग्रं, व्यपहन्ति समन्ततः । शं चाऽऽविष्कुरुते नागकेतोरिव परं तपः ॥ ७८९ ।। तद्यथा जम्बूद्वीपेऽस्ति भरतमण्डनं कुण्डिनं पुरम् । अन्तर्बहिश्च पुन्नागैः सुमनःशालिभिः शुभत् ॥७९०॥ , वणिक् तत्र श्रियां पात्रमभवत् सुन्दराह्वयः । तस्याऽजनिष्ट कालेन, चन्दनो नाम नन्दनः ॥७९१॥ अभङ्गुराऽभाग्यनिधेर्जातमात्रस्य तस्य च । अम्बाऽभूत् सूतिरोगार्त्ता, कालिन्दीसोदराऽतिथिः ॥ ७९२ ॥ बालत्वे मरणं मातुर्वल्लभायाश्च यौवने । वार्द्धके च सुतस्येति, त्रयं स्यात् पक्त्रिमेंऽर्हसि ॥ ७९३।। ववृधे दिवसैरेष, विमात्राऽवमतोऽपि सन् । अरक्षितपदार्थस्य, रक्षिता दैव एव यत् ॥७९४ || विमाता दुर्वचोगर्भैस्ताडनैस्तमपीडयत् । प्रायः सपत्नीतनये, वैरभावो विजृम्भते ॥ ७९५ ।। १. 'द्वीपे जम्बूद्वीपे ' इति पु.प्रे. । २. यमाऽतिथिः । ३. पापे ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy