________________
तपसि नागकेतुकथा
भार्यासक्तः पिताऽप्येनं, निरभर्त्सयताऽनिशम् । यतो नारीजिता मत्र्त्या, विचारविकलाः क्षितौ ॥७९६ ॥
शैशवं समतिक्रान्तः, क्रान्तो दुःखभरेण सः । कदापि कञ्चन मुनिं ववन्दे करुणाखनिम् ॥७९७|| धर्मलाभाशिषा तेन, नन्दितः सोऽश्रुमिश्रदृक् । दुःखमाविश्चकाराऽन्तःप्रचितं गद्गदध्वनिः ॥ ७९८॥ 'प्रभो! जीवन्मृतोऽस्म्येष, नृपशुर्भाग्यवर्जितः । विमातुर्जनकाच्चाप्ततीव्रनानाकदर्थनः ॥७९९॥ कस्याऽग्रे स्वानि दुःखानि, हृद्गतानि ब्रुवे विभो ! | दुःखिताः परदुःखेन, प्रायो यद्दुर्लभा नराः ||८०० यूयं सर्वजनीनास्त[द्], दुःखमेतत् प्रकाश्यते । जानेऽस्माज्जीवितान्मृत्युः, सर्वदुःखापहो वरम्' ॥८०१॥ वाचंयमस्ततोऽवोचत्, 'वत्स ! दुःखमिदं कियत् ? । देही दुःखान्यनन्तानि, लभते यद् भवभ्रमे ॥८०२॥ कृतपञ्चेन्द्रियवधो, महारम्भपरिग्रहः । मांसाहारादिनिरतो, मृत्वाऽङ्गी नरकं गतः ॥८०३||
परमाधार्मिककृतैस्तथाऽन्योन्यमुदीरितैः ।
क्षेत्रजैश्च महादुः[खै]र्व्यथ्यते वचनातिगैः ||८०४॥ युग्मम् ॥ जलस्थलनभश्चारितिर्यग्गतिमवाप्तवान् ।
जन्तुराप्तोऽतिशीतोष्ण-वध-बन्धादिभिर्व्यथाम् ॥८०५ ॥
मर्त्यत्वेऽपि जरा-मृत्यु-दास्य-रोग-वियोगजैः । दुःखैरशरण: क्लिश्यत्यङ्गी दुष्कर्मसङ्गतः ॥ ८०६||
७९