SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तपसि नागकेतुकथा भार्यासक्तः पिताऽप्येनं, निरभर्त्सयताऽनिशम् । यतो नारीजिता मत्र्त्या, विचारविकलाः क्षितौ ॥७९६ ॥ शैशवं समतिक्रान्तः, क्रान्तो दुःखभरेण सः । कदापि कञ्चन मुनिं ववन्दे करुणाखनिम् ॥७९७|| धर्मलाभाशिषा तेन, नन्दितः सोऽश्रुमिश्रदृक् । दुःखमाविश्चकाराऽन्तःप्रचितं गद्गदध्वनिः ॥ ७९८॥ 'प्रभो! जीवन्मृतोऽस्म्येष, नृपशुर्भाग्यवर्जितः । विमातुर्जनकाच्चाप्ततीव्रनानाकदर्थनः ॥७९९॥ कस्याऽग्रे स्वानि दुःखानि, हृद्गतानि ब्रुवे विभो ! | दुःखिताः परदुःखेन, प्रायो यद्दुर्लभा नराः ||८०० यूयं सर्वजनीनास्त[द्], दुःखमेतत् प्रकाश्यते । जानेऽस्माज्जीवितान्मृत्युः, सर्वदुःखापहो वरम्' ॥८०१॥ वाचंयमस्ततोऽवोचत्, 'वत्स ! दुःखमिदं कियत् ? । देही दुःखान्यनन्तानि, लभते यद् भवभ्रमे ॥८०२॥ कृतपञ्चेन्द्रियवधो, महारम्भपरिग्रहः । मांसाहारादिनिरतो, मृत्वाऽङ्गी नरकं गतः ॥८०३|| परमाधार्मिककृतैस्तथाऽन्योन्यमुदीरितैः । क्षेत्रजैश्च महादुः[खै]र्व्यथ्यते वचनातिगैः ||८०४॥ युग्मम् ॥ जलस्थलनभश्चारितिर्यग्गतिमवाप्तवान् । जन्तुराप्तोऽतिशीतोष्ण-वध-बन्धादिभिर्व्यथाम् ॥८०५ ॥ मर्त्यत्वेऽपि जरा-मृत्यु-दास्य-रोग-वियोगजैः । दुःखैरशरण: क्लिश्यत्यङ्गी दुष्कर्मसङ्गतः ॥ ८०६|| ७९
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy