________________
८०
श्रीअजितप्रभुचरितम् सर्गः-१ ईर्ष्या-विषाद-लोभादिव्यथया च्युतिभीतितः । देवजन्मन्यपि भवेत्, सौख्यमेकान्ततो न हि ॥८०७।। एवं पापोदयाज्जीवाः, प्रस्फुरत्क्लेशकोटयः । लोकनाथमनाराध्य, क्लेशान्तं न वितन्वते' ॥८०८॥ 'लोकनाथः प्रभो ! कोऽसौ ?', चन्दनेनेति जल्पिते । तत्त्वप्रकाशिनी वाचमुवाच यतिनायकः ॥८०९।। 'समस्ति दूरपाराख्यं, पुरं यस्य बुधा विदुः । अधोलोकं भूमिगृहानूर्द्धवलोकं शिरोगृहान् ॥८१०॥ अविचार्यबलो वश्यसुराऽसुरनरेश्वरः । उग्रशासननामाऽस्य, पुरस्येष्टे जनेश्वरः ॥८११॥ निग्रहानुग्रहविधौ, प्रह्वः स प्रकटं ददौ । उच्चैःपदं सुमनसां, द्विजिह्वानामधःपदम् ॥८१२॥ शुद्धबुद्ध्यभिधस्तस्य, सचिवः प्रस्फुरद्गुणः । सर्वव्यापारनिपुणोऽभ्राम्यत्तत्राऽखिले पुरे ॥८१३।। वनस्यस्तस्य पुरुषाश्रया ह्वः समजायत । योऽभजद्भोजनस्यापि, भाजने नान्तरं मनाक् ॥८१४॥ स्नाते चालङ्कृते चास्मिन्, मित्रे मन्त्र्यपि सन्ततम् । बाढं प्रीतः स्वयं नाऽस्नाद्बभाराऽलङ्कृतीन च ॥८१५॥ विविधैर्भोजनैनित्यं, भोजयामासिवानमुम् । तुष्टश्चैतावताऽभुक्त, न कदाचिदयं स्वयम् ॥८१६।।
१. 'पहुरिति पु.प्रे. । ३. दुर्जनानाम् । ३. मित्रम् ।