SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मित्रत्रयकथा बहु किं स्ववयस्यस्य, स्पृहापूर्त्तिचिकीरयम् । अकार्षीत् विविधक्लेशान्, स्वार्थभ्रंशमचिन्तयन् ॥ ८१७॥ वयस्योऽपि परं प्रेम, दर्शयन्नवियोगवान् । मन्त्रिणा सह जागर्ति, शेते गच्छति तिष्ठति ॥८१८॥ एवं सुहृदसौ तस्य, नित्यासक्ततया खलु । अवापदपरां नित्यमित्रमित्यभिधां जनात् ॥८१९॥ अथ विश्वहितो नाम, विश्वपूज्यो महापुमान् । मित्रकार्यकृते गाढप्रयासं तं विलोकयन् ॥८२०॥ किं श्रद्दधाति वचनं, ममासौ दुर्मदो न वा ? | इति द्विधामनाः प्रोद्यत्कृपः प्राह कदाचन ॥ ८२१॥ युग्मम् ॥ 'सखा तवैष चेतोद्रूप श्रीः सुकुलोद्भवः । केषां नेत्रचकोराणां, न हि चंन्द्रातपायते ॥८२२॥ परमेतद्दशां किञ्चिद्विमृश स्वच्छधीनिधे ! | यथाऽमुष्मिन् दृढं रक्तो भवान्नाऽसौ तथा त्वयि ॥८२३|| , अयमन्तःकुशुद्धो यत्, स्नानभोज्यादिना यदा । न सत्क्रियेत खलवद्विरूपः स्यात्तदैव हि ॥८२४|| दधानः कृत्रिमं प्रेम, स्वार्थनिर्मितलम्पटः । भवन्तं दुःखविधुरमनुगन्ता न चैषकः ॥८२५॥ तद्यावद्दैवतो नाऽयं, जह्यात् प्रेम समुज्ज्वलम् । तावत् परः सुहृत् कर्त्तुं युक्तस्ते त्राणकृद् भये ॥८२६ ॥ १. चन्द्रातपः- चन्द्रिका इवाचरति । ८१
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy