________________
मित्रत्रयकथा
बहु किं स्ववयस्यस्य, स्पृहापूर्त्तिचिकीरयम् । अकार्षीत् विविधक्लेशान्, स्वार्थभ्रंशमचिन्तयन् ॥ ८१७॥
वयस्योऽपि परं प्रेम, दर्शयन्नवियोगवान् । मन्त्रिणा सह जागर्ति, शेते गच्छति तिष्ठति ॥८१८॥ एवं सुहृदसौ तस्य, नित्यासक्ततया खलु । अवापदपरां नित्यमित्रमित्यभिधां जनात् ॥८१९॥ अथ विश्वहितो नाम, विश्वपूज्यो महापुमान् । मित्रकार्यकृते गाढप्रयासं तं विलोकयन् ॥८२०॥ किं श्रद्दधाति वचनं, ममासौ दुर्मदो न वा ? | इति द्विधामनाः प्रोद्यत्कृपः प्राह कदाचन ॥ ८२१॥ युग्मम् ॥
'सखा तवैष चेतोद्रूप श्रीः सुकुलोद्भवः । केषां नेत्रचकोराणां, न हि चंन्द्रातपायते ॥८२२॥
परमेतद्दशां किञ्चिद्विमृश स्वच्छधीनिधे ! |
यथाऽमुष्मिन् दृढं रक्तो भवान्नाऽसौ तथा त्वयि ॥८२३||
,
अयमन्तःकुशुद्धो यत्, स्नानभोज्यादिना यदा । न सत्क्रियेत खलवद्विरूपः स्यात्तदैव हि ॥८२४|| दधानः कृत्रिमं प्रेम, स्वार्थनिर्मितलम्पटः । भवन्तं दुःखविधुरमनुगन्ता न चैषकः ॥८२५॥
तद्यावद्दैवतो नाऽयं, जह्यात् प्रेम समुज्ज्वलम् । तावत् परः सुहृत् कर्त्तुं युक्तस्ते त्राणकृद् भये ॥८२६ ॥
१. चन्द्रातपः- चन्द्रिका इवाचरति ।
८१