________________
श्रीअजितप्रभुचरितम् सर्गः-१ अनिर्मितान्यमित्रस्त्वं, यदाऽनेन प्रमुच्यसे । भावी दूरस्थलोकानामुपहासास्पदं तदा' ॥८२७॥ श्रुत्वेति किञ्चित्सम्प्राप्तचेतनो व्यदधादयम् । कृतज्ञाख्यं परं मित्रमुन्मीलच्छिथिलादरः ॥८२८।। अपिप्रिणच्च सद्भोज्य-वस्त्र-ताम्बूल-मण्डनैः । सुहृदं तं परं प्रेमपरः पर्वणि [पर्वणि] ॥८२९।। तेन पर्वसु सर्वेषु, पूज्यमानमनारतम् । तं निरीक्ष्य जनाः पर्वमित्रमित्याख्ययाऽभ्यधुः ॥८३०॥ एवं मित्रद्वयीगाढप्रेमपाशनियन्त्रितम् । बभाषेऽमुं करुणयाऽन्येधुर्विश्वहितः पुनः ॥८३१।। 'त्वया पर्ववयस्यो यो, निर्ममे निर्मलाशयः । स चारुः किन्त्वसौ दुःखे, तव दुःखं धरिष्यति ॥८३२।। अपनेतुं तु दुःखं नो, शक्तिरस्य मनागपि । भद्र ! यं सुहृदं कर्तुं, मया प्रोक्तोऽसि सोऽपरः ॥८३३।। स सन्तुष्टो नमनतः, स्तवनाद्वाऽपि सम्भवेत् । उद्धरे[द्] दैवदुःखाच्च, तत्र मैत्री तनुष्व तत्' ॥८३४।। 'क्वेदृगस्ति सुहृच्छुद्धबुद्धिना विनयादिति । अनुयुक्तो विश्वहितः, सारां गिरमथाऽतनोत् ॥८३५।। 'उदारस्फाररूपो यः, सुधाधुतिसमद्युतिः । जाह्नवीवीचिविशदवसनः सारमण्डनः ॥८३६।। स्मेरराजीवसङ्काशवदनः सुप्रसन्नदृक् । भ्राजिष्णुर्भाग्यसम्भारैर्नम्यमानो घनैर्जनैः ॥८३७।।