________________
मित्रत्रयकथा
कदाचिद् दृश्यते देवाधिदेवभवने स्फुटम् । कदाचित् साधुशालासु, कदाचित् कृतिसद्मसु ॥ ८३८॥
८३
लोकनाथाभिधः सिद्धपुमान् सर्वगतः स हि । शक्तः सर्वेभ्योऽपायेभ्यो, रक्षितुं स्वाश्रिताङ्गिनः ॥८३९॥ चतुर्भिः कलापकम् ।। तत्तेन सह सौहार्दं, विधेहि स्वहितेच्छया । एधि स्फुरितकल्याणस्ततस्त्वमकुतोभयः ॥८४०॥ इति विश्वहिताच्छ्रुत्वा, विधित्सुस्तेन सौहृदम् । दिने दिने शुद्धबुद्धिर्विसस्मार प्रमद्वरः ||८४१ ॥ ततो विश्वहितेनाऽय[म]भियुक्तो मुहुर्मुहुः । यानस्थ एवाऽवन्दिष्ट, लोकनाथं तमेकदा ॥८४२॥ प्रयोजनवशाद् गच्छन्, कदाचिद्दूरवर्त्मनि । तस्य दृष्टस्य स्वनरैः प्रणामं समदेशयत् ॥८४३ ॥ कदापि प्रेषयामास, केनापि प्राभृतीकृतम् । तस्मै पार्श्वचरैरेष, फलपुष्पादि सुन्दरम् ॥८४४॥ एनं सानन्दमन्येद्युः, पुनर्विश्वहितोऽशिषत् । 'सेवस्व विश्वमहितमेनमादरतो बुध ! || ८४५॥ दूरस्थममुमालोक्य, वन्दस्वोत्तीर्य यानतः । ढौकयस्व स्वहस्तेनाऽमुष्मै पुष्पफलादिकम् ॥८४६॥ एवमाराधयत्येनं, यद्येकाग्रमना भवान् । रक्षत्यसौ तदा तीव्रात्, प्रत्यूहव्यूहतो ननु ' ॥८४७॥
१. ‘कदापि सदने सताम्' इति वासुपूज्यचरित्रे |२| १६४३ |