________________
८४
श्रीअजितप्रभुचरितम् सर्गः-१ अथ सोऽपि तदा चक्रे, तद्विश्वहितशासनम् । चतुरः को न मनुते ?, शिक्षा ह्यायतिसुन्दराम् ॥८४८॥ नियमाद् यन्नमत्येष, वर्मन्येनं निरीक्षितम् । अवोचंस्तं ततोऽमुष्य, प्रणामसुहृदं जनाः ॥८४९।। मित्रत्रयीं शुद्धबुद्धिरेवंरीत्या प्रमोदयन् । समयं समतीयाय, राजकार्यपरायणः ॥८५०॥ कदाचिन्नित्यमित्रेणावियुक्तः शयनस्थितः । प्रबुद्धः पार्श्वतोऽपश्यच्छ्यामानुन्मुद्गरान्नरान् ॥८५१॥ 'के यूयं ? किं समायाता'स्तेनेति प्रश्निता अमी । प्राहुः प्राहेष्महि वयं, त्वयि क्रुद्धेन भूभुजा' ॥८५२॥ 'किमागो मे ? मयि नृपः, किं वा व्याकरदित्यमी । पृष्टास्त्वाहुर्भूभृदेव, जानात्यागस्तवोत्कटम् ॥८५३।। भवांस्त्वैश्वर्यतोऽमुष्मात्, कृष्ट्वा कूपे नृपाज्ञया । क्षेप्योऽस्माभिरिति' श्रुत्वा, दुःश्रवं मन्त्र्यकम्पत ॥८५४|| तं नित्यसुहृदं मान्द्यदीनया चाऽवदद् गिरा । 'सखे ! सखे ! रक्ष रक्ष, क्रुद्धो मयि धराधवः ॥८५५।। सुहृदः सम्पदि प्रायः, सुप्रापा बहवोऽपि हि । विपद्यपि भवेद्यस्तु, धरा तेनैव धार्यते ॥८५६॥ ताता-ऽम्बा-वल्लभा-भ्रातृ-सुतादिभ्योऽपि यत् प्रियः । त्वं ममाऽसि सुहृत्तस्माद्भयादस्मात् समुद्धर' ॥८५७।। ततो नित्यसुहम्लानवदनः प्रत्यभाषत । 'राट् क्रुद्धो यदि तत् किं मे, ब्रूषे सम्बन्धतः कुतः ?' ॥८५८॥