________________
मित्रत्रयकथा
नासौ प्रत्यभिजानाति, किं मामिति स शुद्धधीः । स्माह'नो वेत्सि मां मित्र !, भ्रान्तचित्तः कथं त्वसि?' ॥८५९।। सोऽप्युवाचाऽथ 'ज्ञातोऽसि, किमप्यागो महद् व्यधाः । तदुग्रशासनो भूपस्त्वां निग्राहयति स्फुटम् ॥८६०॥ ततोऽद्य भवता किं मे, राजद्विष्टविधायिना । स्वकृतं स्वयमेवैको, भुक्ष्व किं भाषसे बहु' ॥८६१॥ परः प्रोचे 'सखेऽकार्षमकृत्यं त्वत्कृते बहु । यदि वा स्वेनोपकृतं, जल्पद्भिर्दीयते स्वयम्' ॥८६२।। अथ नित्यसुहृद् गाढं, विधुरः सेय॑मभ्यधात् । 'वाचाट ! कर्णकटुकं, किं जल्पस्यसकृन्मुधा ? ॥८६३॥ वि[द]धाने मयि स्नानाशनाद्याधास्तथा स्वयम् । तत् स्वार्थे त्वयका सर्वं, चक्रे किञ्चिन्न मत्कृते ॥८६४।। नृपद्विष्टेन नो कश्चित्, त्वयाऽर्थो मे मृषागिरा । याहि दूरे द्रुतमिति', तेनासौ विधृतो गले ॥८६५॥ अत्रान्तरे शुद्धबुद्धिमुग्रशासनकिकरैः । धृतं श्रुत्वाऽऽकुलः पर्वसुहृदागाद् द्रुतं गृहम् ॥८६६।। विमुक्तनित्यमित्राशः, सोऽप्यस्राम्बुप्रपूर्णदृक् । दीनो विलोकयामास, पर्वमित्राऽऽननं तदा ॥८६७।। ऊचे पर्वसुहृन्मित्र !, हहा ! कष्टेऽपतः कथम् । इदं मदीयसर्वस्वमपि दत्त्वा छुटाऽधुना ॥८६८॥ अथवा कष्टमखिलमेतन्मयि नियोजय । धनेन जीवितेनापि, किमस्माकं त्वया विना' ॥८६९॥