________________
८६
श्री अजितप्रभुचरितम् सर्ग :- १
श्रुत्वेति दध्यिवान् शुद्धमतिर्मूढेन धिग्मया । पोषितः सर्वयत्नेन, सर्वथा पुरुषाश्रयः || ८७०।। कृतज्ञस्य पुन: किञ्चिन्न कदाचन निर्ममे । अनयोश्चान्तरमिदं, प्रत्यक्षं हन्त वीक्ष्यते ॥ ८७१ ।।
इति चिन्तापरममुं तत्क्षणं पुरुषाश्रयः । क्रोशन् गाढं गले धृत्वा, दूरीचक्रेतरां स्वतः ||८७२।। 'एनं विना भविष्यामि, कथं हा भाग्यवर्जितः । अस्य स्थाने नयध्वं मामेनं मुञ्चत मुञ्चत' ||८७३। इति तारं प्रलपति, स्वशिरस्ताडनापरे । सदुःखे पर्वमित्रेऽमुं, जगृहुर्भूपकिङ्कराः ||८७४ || युग्मम् ॥ पर्वमित्रमशोशोचीत्तस्मिन् कुष्टे हठेन तैः । सुखं शिश्ये पुनर्नित्यवयस्यः कृतकृत्यवत् ॥८७५॥ वह्निना भीषणेनोच्चैर्ध[गद्ध ] गिति कुर्वता । दुर्दर्शनस्य कूपस्योपकण्ठं तैरनायि सः ||८७६ ॥ अहो ! कष्टमहो ! कष्टमत्र क्षेप्स्यन्त्यमी ह माम् । कश्चिदस्ति न मे त्राता, हा तापोऽयं सुदुःसहः ||८७७|| हुं ! मां विश्वहितोऽवोचत् त्वां कष्टभरपातिनम् । पाता सिद्धपुमाल्लोँकनाथः सर्वतो ध्रुवम् ||८७८ ॥ तदस्मिन् समये कामं, कष्टं कष्टमये मम | स लोकनाथः शरणं, भूयाद्विघ्नौघघातकः ॥ ८७९ ॥ इत्यसौ यावदध्याय[त्], तावत्तारत्वरा नराः । उदारमूर्त्तयो वर्यधैर्याः स्पष्टमहौजसः ॥८८०॥