________________
मित्रत्रयकथा
शशाङ्ककिरणाकारदण्डमण्डितपाणयः । श्वेतवास:परीधाना, उदीच्याः केचिदाययुः ||८८१|| युग्मम् ॥
'रे रे ! मुञ्चत नो यूयं, कूपे क्षेप्तुममुं क्षमाः । लोकनाथनरेष्वस्मास्वीक्षमाणेषु साम्प्रतम् ॥८८२॥ नो चेद्युध्यध्वं पश्यामः, पौरुषं वः किलोन्मदाः' । इति तेषां गिरा भूपकिङ्करैः कलये स्थितम् ॥८८३|| मिथो जातेऽथ समरे, सिद्धपुंभिः समुद्गरैः । जिग्यिरे ते शठा उच्चैः स्थिते लोके प्रपश्यति ॥ ८८४ ॥ तेषु त्रस्तेषु क्षुण्णेषु, पतितेषु मृतेषु च । ननृतुर्लोकनाथीयपुमांसो विजयोज्जिताः ||८८५ ।। अथ ते कूपपार्श्वस्थं, तं गृहीत्वा करेऽभ्यधुः । त्वत्प्रणामवयस्यस्त्वामाह्वयत्येहि सत्वरम् ॥८८६ ॥ स तैः सममथाऽचालीत्, सौधं चाग्रे निरैक्षत । सद्दृष्टितुष्टिदं सर्वकल्याणमयमुत्तमम् ||८८७|| रामणीयकगुणाक्षिप्तमनाः सम्मदमेदुरः । तत्राऽविशदसौ सर्वेन्द्रियाह्लादनिबन्धने ॥८८८||
भूर्भुवः[स्व]स्त्रयीनाथैर्वन्द्यमानं महादरात् । सर्वदर्शनसूरीन्द्रैर्नूयमानं स्वबुद्धितः ॥८८९ ॥ प्रसन्नया दृशा शश्वद्वीक्षमाणं स्वसेवकान् । निषण्णमासने वर्ये, चतुश्चरणसुन्दरे ॥८९०॥ १. समराय । २. लोकनाथसम्बन्धिनराः । ३. स्तूयमानम् ।
८७