SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ८८ श्रीअजितप्रभुचरितम् सर्गः-१ तं लोकनाथमङ्गोद्यत्तेजोनिर्जिततापनम् । तस्य विश्वहितस्याऽङ्केऽवष्टब्धं दृष्टवानसौ ॥८९१।। त्रिभिर्विशेषकम् ॥ तस्यर्द्धिदर्शनाच्चित्ते, विस्मितश्चेत्यचिन्तयत् । प्रदत्तं नित्यमित्राय, सर्वस्वं धिग् मया मुधा ॥८९२॥ सदकार्यपि धिक्कार्याऽकार्यमूढेन न न्वसौ । सङ्केतसदनं विश्वसम्पदां सर्वभीतिहृत् ॥८९३।। कृती मामन्वशासिष्यत्तदा विश्वहितो न चेत् । अतन्वन्नतिमप्यसौ, तदाऽवाप्स्यं नु कां गतिम् ? ॥८९४।। इति ध्यायन् ववन्देऽसौ, लोकनाथं ससम्भ्रमः । तेनाऽप्याश्लिष्य धृत्वाऽङ्केऽप्रच्छि वै[धु]र्यकारणम् ॥८९५॥ भीरुग्रशासनादुओत्युक्तवांश्चौच्यताऽमुना । 'मा भैषीरां श्रितानां न, [स] प्रभूष्णु पाधमः ॥८९६।। अहं न सच्चकाराऽमुं, किञ्चिदित्यपि मा हृदि । खित्थाः प्रणामः सर्वेषु, सत्कारेषु यतो महान् ॥८९७|| स्याच्छीदानेन भृत्यानां, शौर्यादेरनृणो नृपः । प्रणामस्य पुनस्तेषामनृणो न कथञ्चन ॥८९८॥ तत् त्रिविष्टपसाम्राज्यादपि किञ्चित् परं पदम् । अददत्त्वत्प्रणामस्य, कथं स्यामनृणः कृतिन् ! ? ॥८९९।। काञ्चिद्ददामि तद्यावद्, वृद्धिमस्य ऋणस्य ते ।। तावत् सर्वभयत्यक्तो, मा मुचः सन्निधिं मम' ॥९००।। १. कलान्तरम् ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy