________________
मित्रत्रयकथा
इत्युक्त्वा निजसौधाग्रे, नीत्वाऽस्थाप्यत तेन सः । चिन्तासमानसमयपूर्णकामचयश्चिरम् ॥९०१॥ कदाचिल्लोकनाथस्तमुवाचा'ऽत्र चिरं स्थितः । भवानज्ञायि तैर्दुष्टात्मभिर्भूपतिकिङ्करैः ॥९०२॥ अमी कदाच[न] [च]राश्छलिनो बलिनो भृशम् । त्वां ग्रहीष्यन्ति मे दृष्टिं, वञ्चयित्वा महामते ! ॥९०३॥ तत्तत्र क्वापि मुञ्चामि, भवन्तं भव्यसत्तम ! । भवेयुर्यत्र ते द्रष्टुमपि त्वां न प्रभूष्णवः ॥९०४॥ गच्छतां तत्र किन्तु स्यात्, पन्थाः क्लेशावहोऽङ्गिनाम् । सोढव्यं तत्र यदुःखं, क्षुत्-पिपासादिभिर्महत् ॥९०५॥ तत् क्लेशसहने स्थैर्य, वर्यं निर्माय मानसे । अनुत्तरं पदं प्राप्तुमेह्यह्नाय मया सह ॥९०६॥ मार्गेऽरयः समारब्धोदग्रदम्भाः ससम्भ्रमम् । मुखेऽतिमधुराश्चित्ते, विरसा रभसादपि ॥९०७॥ मधुरैरन्नपानाद्यैर्लोभयन्तः पदे पदे । भवन्तमाह्वयिष्यन्ति, दीनवाक्यप्रपञ्चिनः ॥९०८। युग्मम् ॥ तेषु चेद्वपुषा वाचा, स्वान्तेनापि च रक्ष्यसे । रक्षिष्यामि तदा न त्वां, गृह्यमाणं छलेन तैः' ॥९०९॥ एवं शिक्षास्थिरममुं, गृहीत्वाऽचलदध्वनि । लोकनाथः प्रभापूरपराभूतार्कमण्डलः ॥९१०॥ ___ १. विचारणातुल्यसमयपूर्णीभूतमनोरथसमूहः । २. रभसात् = वेगात् = किम्पाकात् ।