________________
श्रीअजितप्रभुचरितम् सर्ग:-१ मार्गे प्रपास्वसौ तृष्णगपि शीताम्बुभिर्वधूः । निमन्त्रणपरा मेने, भुजङ्गीरिव दुःखदाः ॥९११।। क्षुधातुरः पुरः सत्रागारेषु प्रणयाञ्चितम् । नरानाह्वयतोऽमंस्त, स व्याघ्रानिव भीषणान् ॥९१२॥ मार्तण्डचण्डपादैश्च, तप्तः फल-सुमाकुलान् । छायातरूनवाज्ञासीत्तरां विषतरूनिव ॥९१३।। शुभवस्तुष्वरक्तोऽसद्वस्तूनां चाऽद्विषन्नयम् । वहन् लोकेशशिष्टिं तां, हृदि हारलतामिव ॥९१४।। गच्छन्नग्रे महत् सद्माऽनुपमानं न्यरूपयत् । पुण्यवद्भिः पापिभिश्चाऽदृष्टपूर्वं सुनिर्मलम् ॥९१५॥ युग्मम् ॥ कुतोऽप्यजातभीस्तिष्ठाऽनन्तं कालमिहेति' तम् । उक्त्वा सिद्धपुमान् भूयो, लोकाभीष्टचिकीर्ययौ ॥९१६।। सोऽपि तत् सौधमध्यास्य, परानन्दवशंवदः । तृणपूलतुला मेने, सर्वाः शक्रादिसम्पदः ॥९१७।। अस्याः कथाया हृदयं, शृणु भो अवधानवन् ! । पुरं यद्दूरपाराख्यमपारो भव एव सः ॥९१८॥ राजोग्रशासनः कर्मपरीणामोऽत्र बुध्यताम् । मन्त्री तु शुद्धमत्याख्यः, शुद्धात्मा जीव एव हि ॥९१९।। तस्य नित्यसुहदेहः, प्रोक्ताशेषगुणो मतः । ज्ञेयः पर्ववयस्यस्तु, सौजन्यकलितो जनः ॥९२०॥ १. सूर्यचण्डकिरणैः । २. लोकनाथस्योपदेशम् । ३. 'तृणपूलवर्तुला' इति पु.प्रे. ।