________________
मित्रत्रयकथा
यश्च विश्वहितः पूज्य, उपदेश: स सद्गुरोः । यस्तच्छिष्ट्या नतिसुहृच्चक्रे धर्मः स कीर्तितः ॥ ९२२ ॥ ये निष्ठुराः समाजग्मुरुग्रशासनकिङ्कराः । ते दुष्कर्मगणा व्याधि-मृत्यु-दुर्गतिहेतवः ॥९२२॥ तैरुद्धः शुद्धधीर्जन्तुर्देहमालोक्य निष्क्रियम् । मेने सर्वाभिसारेण, तस्मिन्नुपकृतं मुधा ॥ ९२३॥ स्वदुःखदुःखितं पश्यंस्तदा च स्वजनं जनम् । तत्राल्पमपि सत्कारं, कृतं साध्वित्यमन्यत ॥९२४|| ततश्चैष गले धृत्वा, वपुषा दूरितः स्वतः । शोचति स्वजने नीतः, कूपं यं नरको हि सः ॥९२५॥ तत्राऽग्निर्दुःखसम्भारो, दुःसहोऽस्मात् ससाध्वसे । अमुष्मिन् स्मृतलोकेशे, प्राप्ता ये प्रवरा नराः ॥९२६॥ ते धर्मपाक्षिकाः कर्मगणा दुष्कर्मणां गणान् । जित्वा धर्मस्य लीलौको, विवेकाख्यं तमापिपन् ॥९२७|| तत्र दानादिसत्पादोपशमासनमाश्रितम् । गुरूपदेशावष्टम्भमसौ धर्मं व्यलोकयत् ॥ ९२८ ॥
सौधाग्रभुवि धर्मेण, कालं कमपि यच्च सः । स्थापितोऽन्वभवत् सौख्यं सा सम्यग्दृक्सुरस्थितिः ॥ ९२९ ॥
,
सारां दत्त्वा ततः शिक्षामलुभ्यन् विषयव्रजे । धर्मेण स सदानन्दः, सिद्धिसौधेऽध्यरोप्यत ॥ ९३०॥ लोकनाथः स धर्मोऽयमाराद्धो विधिवद् ध्रुवम् । भवेत् सर्वसुखावाप्तिहेतुर्दुःखभरान्तकः ॥९३१॥
९१