________________
९२
श्रीअजितप्रभुचरितम् सर्गः-१ तद्भद्र ! यदि भद्राणि, विमुद्राण्यभिकाङ्क्षसि । धर्मं सेवस्व यत्नेन, प्रशमोपेतमानसः ॥९३२॥ दान-शील-तपो-भावभेदो नो यैरुपास्यत । धर्मो विवेकविकलैर्दृष्टाल्पसुखलालसैः ॥९३३।। ते काङ्क्षन्ति कथं मूढाश्चमत्कारकरीं श्रियम् । शारदेन्दुवलक्षं च, यशो जगति विस्फुरेत्' ॥९३४।। युग्मम् ॥ श्रुत्वेति चन्दनः साधुधुर्यमभ्यधित 'प्रभो ! । दानं दातुमशक्तोऽहमस्वाधीनधनो यतः ॥९३५॥ तपस्यामि तपः किन्तु, सच्छीलः शुद्धभावनः । तन्निवेदयाऽवद्यज्ञ !, मम किञ्चिद्वरं तपः' ॥९३६।। साधुः स्माह 'विधेहि त्वं, चतुर्थं पाक्षिके तपः । षष्ठं च कष्टनाशाय, चातुर्मासिकपर्वणि ॥९३७॥ सांवत्सरं महापर्वाऽष्टमेनाऽऽराधयोद्यतः । एवं तन्वन्नपारस्य, दुःखाब्धेः पारमाप्स्यसि ॥९३८॥ उपैति तपसा कर्म, निकाचितमपि क्षयम् । सिद्धान्ते गणभृद्भिर्यत्, प्रोक्तमेवं तपःफलम् ॥९३९।। कर्म निर्जर[य]त्यन्नग्लायकः श्रमणो हि यत् । नरके नारका वर्षशतेनापि न तत् खलु ॥९४०॥ प्रातरेव क्षुधा ग्लायन्, यः स्यात् पर्युषिताशनः । अथवा निस्पृहप्रान्तभोज्यन्नग्लायकोऽत्र सः ॥९४१॥ तथा चतुर्थभक्तेन, यत् कर्म क्षपयेन्मुनिः । न तन्नैरयिका वर्षसहस्रेणापि दुर्गतौ ॥९४२।।