________________
तपसि नागकेतुकथा
षष्ठभक्तेन या साधोर्निर्जरा कर्मणां भवेत् । लभेरन्नारका वर्षलक्षयाऽपि न तां ध्रुवम् ॥९४३॥ श्रमणोऽष्टमभक्तस्थः क्षपणं कर्मणां हि यत् । कुरुते वर्षकोट्यापि, [न] तन्नैरयिकाङ्गिनः ॥९४४॥ दशमाहारिणः साधोर्यावती कर्मनिर्जरा ।
कोटीकोट्यापि वर्षाणां नारकाणां न तावती ॥ ९४५ ॥
"
दुष्कर्मद्रुमभङ्गाय, द्विरदोपमविक्रमे ।
तपसि प्राज्ञ ! तन्मा स्म, प्रमादं विदधा मुधा ॥९४६॥ शमप्रधानो धर्मश्चाभिदधे धीधनैर्यतः । तेनोपसर्गसङ्गेऽपि, मा कार्षीः क्रोधमुद्धुरम् ॥९४७॥ प्राप्येति साधुशिक्षां स, तोषपोषं वहन् हृदि । तदाप्रभृत्यपि तपो, व्यधादघजिघांसया ॥ ९४८॥ अथाऽन्यदा पर्युषणापर्वणि प्रशमाश्रयः । असौ कृताष्टमतपा, धृतसामायिकव्रतः ॥९४९॥ विलासयन्मनोमीनं, सद्ध्यानोदन्वदूर्मिषु । विमुक्ताशेषसावद्योऽश्रयत् तृणकुटीरकम् ॥ ९५०॥ युग्मम् ॥
अकस्मात्तत्र च तदा, प्रातिवेश्मिकवेश्मनि । उत्तस्थावनलश्चण्डपवनप्रेरणोल्वणः ॥९५१॥
प्रतीपानिलयोगेनाऽदग्धेऽप्यत्र कुटीरके । विमाता मत्सरभरादसिं (ग्नि) चिक्षेप पापिनी ॥ ९५२ ॥
१. दशमभक्तस्य ।
९३