SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ तपसि नागकेतुकथा षष्ठभक्तेन या साधोर्निर्जरा कर्मणां भवेत् । लभेरन्नारका वर्षलक्षयाऽपि न तां ध्रुवम् ॥९४३॥ श्रमणोऽष्टमभक्तस्थः क्षपणं कर्मणां हि यत् । कुरुते वर्षकोट्यापि, [न] तन्नैरयिकाङ्गिनः ॥९४४॥ दशमाहारिणः साधोर्यावती कर्मनिर्जरा । कोटीकोट्यापि वर्षाणां नारकाणां न तावती ॥ ९४५ ॥ " दुष्कर्मद्रुमभङ्गाय, द्विरदोपमविक्रमे । तपसि प्राज्ञ ! तन्मा स्म, प्रमादं विदधा मुधा ॥९४६॥ शमप्रधानो धर्मश्चाभिदधे धीधनैर्यतः । तेनोपसर्गसङ्गेऽपि, मा कार्षीः क्रोधमुद्धुरम् ॥९४७॥ प्राप्येति साधुशिक्षां स, तोषपोषं वहन् हृदि । तदाप्रभृत्यपि तपो, व्यधादघजिघांसया ॥ ९४८॥ अथाऽन्यदा पर्युषणापर्वणि प्रशमाश्रयः । असौ कृताष्टमतपा, धृतसामायिकव्रतः ॥९४९॥ विलासयन्मनोमीनं, सद्ध्यानोदन्वदूर्मिषु । विमुक्ताशेषसावद्योऽश्रयत् तृणकुटीरकम् ॥ ९५०॥ युग्मम् ॥ अकस्मात्तत्र च तदा, प्रातिवेश्मिकवेश्मनि । उत्तस्थावनलश्चण्डपवनप्रेरणोल्वणः ॥९५१॥ प्रतीपानिलयोगेनाऽदग्धेऽप्यत्र कुटीरके । विमाता मत्सरभरादसिं (ग्नि) चिक्षेप पापिनी ॥ ९५२ ॥ १. दशमभक्तस्य । ९३
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy