SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ९४ मध्यस्थपरिणामत्वाद्बद्धमर्त्यभवस्थितिः । अग्निना दह्यमानोऽसौ कथाशेष [ त्व] माप्तवान् ॥ ९५३ ॥ इतश्च श्री अजितप्रभुचरितम् सर्गः - १ - चन्द्रकान्तमयावासैश्चन्द्रदीधितियोगतः । स्रवद्भिः पङ्किला बाढं, चन्द्रकान्ता समस्ति पूः ॥९५४॥ सदा । पौरा यत्र बभुः सर्वमङ्गलाश्लेषहर्षिणः । महेश्वराः सदा मूर्द्धाऽधरायितकलाभृतः ॥ ९५५॥ राजा विजयसेनाह्वस्तत्राभूद् यदसिः द्वेषिकुण्डलिनां नागदमनीसदृशोऽशुभत् ॥९५६॥ तत्र श्रीकान्त नामाऽभूत् कान्तश्रीः श्रेष्ठिपुङ्गवः । सङ्ख्यातीतधनः प्राज्यभूपसन्मानभूषितः ॥९५७॥ श्रीसखी नाम कान्ताऽस्य, कान्ताऽऽस्यजितचन्द्रमाः । श्रीसर्वज्ञक्रमाम्भोजभृङ्गी रङ्गद्गुणावलिः ॥ ९५८।। पुत्रीयती तनोति स्मोपयाचितशतानि सा । गृहस्थानां विना पुत्रं, प्राज्याऽपि श्रीर्न भाति यत् ॥९५९॥ स चन्दनस्य जीवोऽथ, तस्याः कुक्षाववातरत् । पूर्णे च समये जातः, सुतः स्वर्णसमाऽङ्गरुक् ॥९६०|| सद्धर्मकर्मसोत्साहभव्यौघमघनाशनम् । सांवत्सरं महापर्वाऽभूच्चाऽऽसन्नतरं तदा ॥ ९६१॥ १. यस्य तरवारि: । २. पुत्रम् इच्छन्ती ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy