________________
९४
मध्यस्थपरिणामत्वाद्बद्धमर्त्यभवस्थितिः । अग्निना दह्यमानोऽसौ कथाशेष [ त्व] माप्तवान् ॥ ९५३ ॥
इतश्च
श्री अजितप्रभुचरितम् सर्गः - १
-
चन्द्रकान्तमयावासैश्चन्द्रदीधितियोगतः ।
स्रवद्भिः पङ्किला बाढं, चन्द्रकान्ता समस्ति पूः ॥९५४॥
सदा ।
पौरा यत्र बभुः सर्वमङ्गलाश्लेषहर्षिणः । महेश्वराः सदा मूर्द्धाऽधरायितकलाभृतः ॥ ९५५॥ राजा विजयसेनाह्वस्तत्राभूद् यदसिः द्वेषिकुण्डलिनां नागदमनीसदृशोऽशुभत् ॥९५६॥ तत्र श्रीकान्त नामाऽभूत् कान्तश्रीः श्रेष्ठिपुङ्गवः । सङ्ख्यातीतधनः प्राज्यभूपसन्मानभूषितः ॥९५७॥ श्रीसखी नाम कान्ताऽस्य, कान्ताऽऽस्यजितचन्द्रमाः । श्रीसर्वज्ञक्रमाम्भोजभृङ्गी रङ्गद्गुणावलिः ॥ ९५८।। पुत्रीयती तनोति स्मोपयाचितशतानि सा । गृहस्थानां विना पुत्रं, प्राज्याऽपि श्रीर्न भाति यत् ॥९५९॥
स चन्दनस्य जीवोऽथ, तस्याः कुक्षाववातरत् । पूर्णे च समये जातः, सुतः स्वर्णसमाऽङ्गरुक् ॥९६०||
सद्धर्मकर्मसोत्साहभव्यौघमघनाशनम् ।
सांवत्सरं महापर्वाऽभूच्चाऽऽसन्नतरं तदा ॥ ९६१॥
१. यस्य तरवारि: । २. पुत्रम् इच्छन्ती ।