________________
तपसि नागकेतुकथा इदं पर्युषणापर्वाऽऽराध्यं कृत्वाऽष्टमं तपः । इति जल्पपरं लोकं, तदा बालो निरीक्ष्य सः ॥९६२॥ सञ्जातजातिस्मरणः, प्रोद्यच्छ्रद्धाभरः कृती । तपोऽष्टमं विशिष्टात्मा, प्रत्यपद्यत तत्क्षणम् ॥९६३॥ युग्मम् ॥ नीरोगमपि तं त्यक्ताहारं पश्यन् पिता भृशम् । भृतो दुःखेन विविधानुपचारानकारयत् ॥९६४॥ स्वप्रतिज्ञातनिर्वाहबद्धबुद्धिस्त्वसौ शिशुः । निराहारस्तृतीयेऽह्नि, कलितोऽतुच्छमूर्च्छया ॥९६५॥ जीवन्तमपि तं बालं, मत्वाऽनागतजीवितम् । लसद्विवेका माताऽस्य, हृदयोद्भिन्नगूढशुक् ॥९६६।। मा भूत् पर्युषणापर्वोत्साहभङ्गोऽद्य दुःखतः । इति हेतोर्न कस्यापि, तं वृत्तान्तं न्यवेदयत् ॥९६७॥ युग्मम् ॥ बालं तु तं मृदुक्षौमवेष्टितं प्रविधाय सा । गृहारामभुवि च्छन्नं, न्यखनद्भवतत्त्ववित् ॥९६८॥ पारणादनु तद्वृत्तं, वज्रपातसहोदरम् । श्रुत्वा श्रेष्ठी शोकदीर्णहृल्लोकान्तरमीयिवान् ॥९६९।। धराधवः सपुत्रं तं, परेतं श्रेष्ठिनं विदन् । जिघृक्षुरस्य सर्वस्वं, प्रैषीत् पञ्चकुलं गृहे ॥९७०।। विशन्ति यावन्निःशङ्ख, राड्नरास्ते गृहान्तरम् । अभ्रक्षितः कोऽपि तावद्, गलहस्तयति स्म तान् ॥९७१॥ १. गगनस्थितः । २. गले न्यस्तो हस्तः = गलहस्तः, तेन अपक्षिपतिगलहस्तयति = करगृहीतगलेन दूरीकरोतीत्यर्थः ।