________________
श्री अजितप्रभुचरितम् सर्गः - १
मिमिलुर्न कपाटाश्चाऽऽदीयमाना बलादपि । विस्मितास्तेऽथ भूपाय, निखिलं तदजिज्ञपन् ॥९७२॥ अथागत्य स्वयं भूपः, कोशागारं विशन् रयात् । श्रुतभीषणहुङ्कारो, न्यषदद् द्वारि भीतिभृत् ॥९७३|| भक्त्या स्माह च ' भो गेहाधिष्ठातस्त्रिदशोत्तम ! | जल्प प्रत्यक्षतां प्राप्य, किं मामेवं निषेधसि ?' ॥९७४॥ साक्षाद्भूय ततो दिव्यमूर्त्तिः सुरवरोऽभ्यधात् । 'धरणेन्द्रोऽहमन्यायात्त्वां निषेधामि भूपते !' ॥ ९७५।। 'अन्यायो मम निर्वीराद्रव्यं स्वीकुर्वतः कुत: ?' । इत्युक्तवन्तं धात्रीशं, धरणः प्रत्यभाषत ॥ ९७६॥ 'निर्वीराऽसौ कुतो भूप !, प्राणत्यपि तनूद्भवे ? । साक्षाद्विलोकयाऽध्यक्षे, पदार्थे संशयो हि कः ?' ॥९७७||
९६
इत्युक्त्वा स सुरो बालं, तन्मात्राऽऽनाय्य तं जवात् । जीवन्तं भासुराकारं, दर्शयामास भूभुजः ॥९७८॥ सविस्मयेन भूपेन, पृष्टः किमिदमित्यथ । तत्प्राचीनभवाख्यानपूर्वमाख्यत् फणीश्वरः ||९७९ ।।
‘जातिस्मृतिस्फुरज्ज्ञान:, श्रुत्वा पर्युषणामसौ । दुष्करं साम्प्रतमपि, चकृवानष्टमं तपः ॥९८०॥ मूर्च्छाच्छादितचैतन्यो, जनन्या मृत इत्ययम् । निखातो भुवि पुण्यात्मा, सत्त्वभाजां धुरन्धरः ॥९८२॥ अत्रान्तरे विमानं मे, गच्छतो गगनाङ्गणे । तपोमाहात्म्यतोऽमुष्य, मन्दिरस्योर्ध्वमस्खलत् ॥ ९८२॥